2023-04-09 14:29:23 by ambuda-bot
This page has not been fully proofread.
प्रथम प्रताने प्रथमः स्तबक
गुणाद्वर्ण्यवर्णादेः परतः श्रीशब्दस्तथैतदुपलक्षणात् लक्ष्मीच्छायाशोभाकला-
कान्तिभावप्रत्ययादयः कार्यास्ततस्तत्परतः समासेन युतार्था प्राजिष्णुरोचिष्णु-
द्योतितार्थादयश्च । क्वापि श्रीप्रभृतिशब्दान् विनापि केवलगुणादेव परतस्तथा ।
क्वचिदसमासेनापि युतार्थादयो योज्याः । यथा-
शोणश्रीसंयुतो
भानुर्वृत्तलक्ष्मीसमन्वितः ।
अंशूनां शोभया कीर्णो गगनस्थितिसङ्गतः ॥ ६ ॥
श्यामलद्युतिविभ्राजो गजिरोचिष्णुवैभवः ।
विद्युता द्योतितः प्रीति स्तनयित्नुस्तनोत्ययम् ॥ ७ ॥
तुल्यादमो सदृर्गजष्णुमुख्याः पूर्वं जितादयः ॥ २२ ॥
तुल्याद्वर्ण्यस्य वर्णादिभिस्समानात्परतोऽमी पूर्वोक्तरीत्या युतार्थाद्यास्तथा
सदृगर्थाश्च जिष्णुजैत्रजयिजित्वरजितमुख्याश्च । तथैतदुपलक्षणात् स्पद्धिधिक्कार-
निर्भर्त्सक विडम्बनतर्जकादयो योज्याः । तथा तुल्यात्पूर्वं जित-भत्सित-बिडम्बित-
धिक्कृत-न्यक्कृत-निकृत-पराभूत-अवहेलित-अवगणित-अवमानित - तिरस्कृत-
अधःकृत-तर्जितादयो योज्याः । यथा-
चण्डश्रीसंयुता कीतिः कर्पूरभ्राजिवैभवा ।
यस्य गङ्गोमिरोचिष्णुः कुन्दश्रीद्योतिता बभौ ॥ ८ ॥
कैलाससदृशं रेजे विष्णुशङ्खांशुजिष्णुभम् ।
यद्यशो विधुधिक्कारि तुषाराद्रिविडम्बनम् ॥ ६ ॥
जितपार्वणशीतांशु पराभूतभवाचलम् ।
निर्भत्सिततुषाराद्रि भाति भूप भवद्यशः ॥ १० ॥
५
॥ इति श्रीजिनदत्तसूरिशिष्यप ण्डित श्रीमदम रचन्द्रविरचितायां
काव्यकल्पलताकविशिक्षावृत्ती छन्दः सिद्धिप्रताने
प्रथमेऽनुष्टुप्छासनस्तबकः प्रथमः ॥१॥