This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
आद्यासुरोरधो ह्रस्वमग्र्यं तूपरिवल्लिखेत् ।
आदौ लघुंघु गुरुं तूने मात्राजातिषु सम्भवेत् ॥ १८ ॥
एकमात्र ऋजुर्हस्थो लघुज्ञेयो गुरुः पुनः ।
ग्वनो दोर्घो विसर्गान्तः सानुस्वारो द्विमात्रकः ॥ १९ ॥
अह्नादिसंयुते वर्णे व्यजने चाग्रगे लः गुरुः ।
पादान्ते वा लघोर्गत्वं वंशस्थादिषु नो पुनः ॥ २० ॥
अह्नादि, यथा –
 
तव ह्रियाऽपह्रियो मम होरभूच्छशिग्रहेऽपि द्रुतं न घृता ततः ।
बहुल भ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत्पुनः ॥ १ ॥
तीव्रप्रयत्नोच्चारेण ह्रादावपि लघुर्गुरुः ।
बर्हमारेषु केशान् वा सुप्तमीन इव हृदः ॥ २ ॥
 
विशेषेणोपायमाह-
विशिष्टार्थो वर्णाकाराधाराधेयक्रियादिभिः ।
 
वर्ण्य पदार्थो वर्णेन आकारेण आधारेण आधेयेन क्रिययाऽऽदिशब्दात्परि-
वारादिभिः सविशेषणः क्रियते । यथा -
 
पूर्णिमेन्दुः सितच्छायः सद्वृतोऽम्बरभूषणम् ।
कलाकलापकलितो नयनानन्दनो बभौ ॥ ३ ॥
 
तथा तुल्यश्रिया चारुर्बन्धुश्चौरो रिपुः सुहृत् ॥ २१ ॥
तथा वर्ण्योऽर्थो वर्णादिभिस्तुल्यानां सदृशपदार्थानां शोभया चारुबन्धुश्चौरो
वा शत्रुर्वा मित्रं वा भणनीयः । यथा-
भवद्यशोभरो भाति स्मेरकुन्देन्दुसुन्दरः ।
हारतारकमन्दारकैलासोदरसोदर:
 
कर्पूरपूररुक्चौर:
ऐरावततुषाराद्रिशेषमित्रं
 
पुनर्विशेषेणोपायान्तरमाह-
शरदप्रप्रभारिपुः ।
 
॥४॥
 
१. भूषण इति समीचीनः पाठः प्रतिभाति ।
 
क्षमापते ॥ ५ ॥
 
गुणात् श्रिया युतभ्राजिरोचिष्णुयोतितादयः ।