This page has been fully proofread once and needs a second look.

प्रथमप्रताने प्रथमः स्तबक:
 
स्याच्चतुष्पञ्चषड्ह्रस्वं प्रान्ते विषमपादयोः ।
 

 
चतुर्ह्रस्वाक्षरं पदं दशरथादिकं पञ्चह्रस्वाक्षरं पदं कमलवनादिकं

<flag>
षड्दुढ्रस्वाक्षरं </flag>पदं समवसरणादिकं प्रथमतृतीयपादयोः प्रान्ते चतुस्त्रिद्विवर्णेभ्यः

प्रायः सर्वगुरुभ्यो निश्चितान्तगुरुभ्यो वा परतः प्रयोज्यम् । यथा--पृथ्वीनाथो

दशरथः, अथवा तदा नृपो दशरथः, विस्मेरं कमलवनं रम्यं समवसरणम् ।
 

 
शेषं विशेषणैः पूर्णम्-
-
 
शेषं काव्यं विशेषणैः पूर्णं क्रियते ।
 

 
तूर्णं काव्यप्रदं पदम् ॥ १० ॥
 

 
इत्युक्तप्रकारेण प्रयुज्यमानं पदं शीघ्रं काव्यप्रदं भवति । अनुष्टुभि प्रायः

पथ्यावक्त्रेणाभ्यासः क्रियते ।
 

 
अनुष्टुभि सनौ नाथाद्यात् तुर्यात्स्याद्योक्षराद्वक्त्रम् ।

पथ्यावक्त्रं भवेत् तुर्याद्वर्णाज्जे युग्मपादयोः ॥ ११ ॥

 
ऊजे
तुर्यान्नयभरमसैर्नविपुलायः
 
I
 

आस्वोजे प्रायस्तुर्यो गुर्युजि षड्भ्यो लघुर्ध्रुवः ॥ १२ ॥

 
वर्णमात्राभिधं द्वेधा छन्दः पद्यं चतुष्पदी ।

मयौ रसौ तजौ भ्रौ स्युरष्टौ वर्णगणास्त्रिकाः[^१] ॥ १३ ॥

 
मस्त्रिगुरुर्यो मुखलो मध्यलघू रस्तथान्त्यगुरुभाक्ल: ।

तोऽन्तलघुर्जो मध्यगुरादिगुरुर्भश्च नस्त्रिलघुः ॥ १४ ॥

 
नाम्ना दतचपषा
द्वित्रिचतुष्पञ्चषट्कलाः ।

मात्रागणाः
स्युर्भेदैर्द्वित्रिपञ्चाष्टत्रयोदशैः ॥ १५ ॥
 
नाम्ना दतचपषा
 
मात्रागणाः
 

 
पूर्वं सर्वगुरोः
 
अग्र्यं
 
तूपरिवद्भ्यो
 
१. त्रिवर्णका इत्यर्थः ।
 
पादाल्लघुराडाद्यगुरोरषः ।
धः ।
अग्र्यं तूपरिवद्भ्यो
लघुराद्यगुरोरषःधः ॥ १६
 

 
आदौ स्युर्गुरवो यावत् पादः सर्वलघुर्भवेत् ।
 

प्रस्तारः कथितो वर्णछन्दसामिति कोविदःदैः ॥ १७ ॥
 

------------------------------
[^१] त्रिवर्णका इत्यर्थः ।