This page has been fully proofread once and needs a second look.

+
 
काव्यकल्पलतावृत्तिः
 
सिद्धिशब्द:दः प्रत्येकं योज्य: । स्तबकसंख्या यथासंख्यम् । अत्र काव्यकल्प-

लतायां छन्दः सिद्धिप्रतानः पञ्चभिः स्तबकै:कैः, शब्दसिद्धिप्रतानश्चतुभि:र्भिः स्तबकैः,

श्लेषसिद्धिप्रतानः पञ्चभि:भिः स्तबकैः, अर्थसिद्धिप्रतानः सप्तभिः स्तबकैः,

इत्येते तता विस्तीर्णा लताधर्मत्वात् प्रतानस्तबकारोपः । क्रमेण स्तबकानां

नामान्याह-
"
 
यथा-
-
 
अनुष्टुप्छासनं छन्दोऽभ्यास :सः सामान्यशब्दकः ।
 

वादो वर्ण्यस्थितिः पूर्वप्रताने स्तबका मताः ॥ ५ ॥

 
रूढयौगिक मिश्राख्या यौगिकाह्वानमालिका ।

अनुप्रासो लाक्षणिको द्वितीये स्तबकाः स्मृताः ॥ ६ ॥

 
श्लेषव्युत्पादनं सर्ववर्णनोद्दिष्टवर्णने ।
 

अद्भुतं चित्रमित्येते तृतीये स्तबकाः कृताः ॥ ७ ॥

 
तुर्ये पुनरलङ्काराभ्यासवर्ण्याकृतिक्रियाः ।
 

प्रकीर्णकाभिधः संख्यासमस्ये स्तबकाः स्थिताः ॥ ८ ॥
 

 
इति शास्त्रसङ्ग्रहः ।
 

 
काव्यस्य छन्दोमूलत्वात् प्रथमं छन्दः सिद्धिप्रतानस्तत्र पूर्वमनुष्टुप्छासनं
 
यथा--
 
आदौ साध्यपदं स्थाप्यम्-
-
 
दीदौ प्रथमं साध्यमवश्यं प्रयोज्यं पदं कार्यमेकाक्षरादीनि साध्यपदानि,

यथा--श्रीरीः, लक्ष्मीः, कमला, कमलजा, जलधिजा, दुग्धाब्धिपुत्री, दुग्धाब्धि-

तनया, दुग्धाम्भोनिधिसम्भूता ।
 
-
 
""
 

 
एकादिद्विलघु द्वयात् ।
 

 
एको ह्रस्वो दीर्घाघो वा वर्ण आदौ ययोस्तौ एकादी, द्वौ लघू यत्र पदे

तदेकादिद्विलघु पदं जलधिजा, वारिधिजादि द्वयाद्वर्णद्वयात् स्थाप्यम् । यथा-
-
असौ जलधिजा देवी, इयं बावारिधिजा देवी, ह्रस्वादिद्विलघुपदस्यादीदौ लघू गुरुलघू

न प्रयोज्यौ । यथा - --इह जलधिजा देवी, अत्र जलधिजा देवी ।
 

 
पञ्चाक्षरं समासे के विभक्तिभ्रंशिनि स्वरे ॥ ९ ॥
 

 
पञ्चाक्षरं पदं कुमारपालक्षीराब्धिपुत्रीप्रभृतिपदम् । समासेन कप्रत्ययेन

वा विभक्तिभ्रंश
हेतुना पुरःस्थस्वरेण वा स्थाप्यम् । यथा - --कुमारपाल भूपाल,

क्षीराब्धिपुत्रिका
सेयं, कुमारपालको राजा, कुमारपाल उल्लासी ।
 
-