2023-04-09 14:29:23 by ambuda-bot
This page has not been fully proofread.
+
काव्यकल्पलतावृत्तिः
सिद्धिशब्द: प्रत्येकं योज्य: । स्तबकसंख्या यथासंख्यम् । अत्र काव्यकल्प-
लतायां छन्दः सिद्धिप्रतानः पञ्चभिः स्तबकै: शब्दसिद्धिप्रतानश्चतुभि: स्तबकैः,
श्लेषसिद्धिप्रतानः पञ्चभि: स्तबकैः, अर्थसिद्धिप्रतानः सप्तभिः स्तबकैः,
इत्येते तता विस्तीर्णा लताधर्मत्वात् प्रतानस्तबकारोपः । क्रमेण स्तबकानां
नामान्याह-
"
यथा-
अनुष्टुप्छासनं छन्दोऽभ्यास : सामान्यशब्दकः ।
वादो वर्ण्यस्थितिः पूर्वप्रताने स्तबका मताः ॥ ५ ॥
रूढयौगिक मिश्राख्या यौगिकाह्वानमालिका ।
अनुप्रासो लाक्षणिको द्वितीये स्तबकाः स्मृताः ॥ ६ ॥
श्लेषव्युत्पादनं सर्ववर्णनोद्दिष्टवर्णने ।
अद्भुतं चित्रमित्येते तृतीये स्तबकाः कृताः ॥ ७ ॥
तुर्ये पुनरलङ्काराभ्यासवर्ण्याकृतिक्रियाः ।
प्रकीर्णकाभिधः संख्यासमस्ये स्तबकाः स्थिताः ॥ ८ ॥
इति शास्त्रसङ्ग्रहः ।
काव्यस्य छन्दोमूलत्वात् प्रथमं छन्दः सिद्धिप्रतानस्तत्र पूर्वमनुष्टुप्छासनं
आदौ साध्यपदं स्थाप्यम्-
आदी प्रथमं साध्यमवश्यं प्रयोज्यं पदं कार्यमेकाक्षरादीनि साध्यपदानि,
यथा – श्री लक्ष्मीः, कमला, कमलजा, जलधिजा, दुग्धाब्धिपुत्री, दुग्धाब्धि-
तनया, दुग्धाम्भोनिधिसम्भूता ।
-
""
एकादिद्विलघु द्वयात् ।
एको ह्रस्वो दीर्घा वा वर्ण आदौ ययोस्तौ एकादी, द्वौ लघू यत्र पदे
तदेकादिद्विलघु पदं जलधिजा, वारिधिजादि द्वयाद्वर्णद्वयात् स्थाप्यम् । यथा-
असौ जलधिजा देवी, इयं बारिधिजा देवी, ह्रस्वादिद्विलघुपदस्यादी लघू गुरुलघू
चन प्रयोज्यौ । यथा - इह जलधिजा देवी, अत्र जलधिजा देवी ।
पञ्चाक्षरं समासे के विभक्तिभ्रंशिनि स्वरे ॥ ९ ॥
पञ्चाक्षरं पदं कुमारपालक्षीराब्धिपुत्रीप्रभृतिपदम् । समासेन कप्रत्ययेन
वा विभक्तिभ्रंश
हेतुना पुरःस्थस्वरेण वा स्थाप्यम् । यथा - कुमारपाल भूपाल,
क्षीराब्धिपुत्रिका
सेयं, कुमारपालको राजा, कुमारपाल उल्लासी ।