This page has been fully proofread once and needs a second look.

॥ श्रीः ॥
 

 
* सङ्कटनाशिन्यै नमः
 
*
 
श्रीमदमरचन्द्रयतिना विरचिता
 

 
काव्यकल्पलतावृत्तिः
 

 
विमृश्य वाङ्मयं ज्योतिरमरेण यतीन्दुना ।

काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥ १ ॥

 
सारस्वतामृतमहार्णवपूर्णिमेन्वोदो-
मंत्वा

र्मत्वाऽ
रिसिंहसुकवेः कवितारहस्यम् ।

किञ्चिन्च्च तव्द्रचितमात्मकृतं च किञ्चिद्-

व्याख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥ २
 

 
वाचं नत्वा महानन्दकरसत्काव्यसम्पवे
दे
कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयाम् ॥ ३ ॥
 

 
वाचं नत्वेति श्रेयोहेतुः । श्रेयसा ह्यविघ्नेन शास्त्रसमाप्तिर्भवति ।

महानन्दकरं यत्सत्काव्यं तस्य या सम्पद् वृद्धिस्तदर्थम् । सद्यो रसास्वादजन्मा

विगलितवेद्यान्तरा परब्रह्मरसास्वादसोदरा परप्रीतिर्महानन्दः । इदं सर्वप्रयोजनो-

पनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् । कल्पलताऽपि सङ्कल्पमात्रलभ्यत्वेन

महानन्दकरी । सत्काव्या सद्भिर्वर्ण्या या सम्पत् तदर्थं स्यात् । महानन्दः प्रयोजनं

तद्युक्तं सत्काव्यमभिधेयं शास्त्रमभिधायकं तयोरभिधानाभिधेयलक्षणः सम्बन्धः ।

शेषं सुगमम् ।
 

 
शास्त्रसङ्ग्रहमाह -
 
-
 
चत्वारोऽत्र च्छन्दःशब्दश्लेषार्थसिद्धिनामानः

क्रमशस्तताः प्रतानाः पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥ ४ ॥