2023-04-09 14:29:23 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
* सङ्कटनाशिन्यै नमः ॐ
श्रीमदमरचन्द्रयतिना विरचिता
काव्यकल्पलतावृत्तिः
विमृश्य वाङ्मयं ज्योतिरमरेण यतीन्दुना ।
काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥ १ ॥
सारस्वतामृतमहार्णवपूर्णिमेन्वो-
मंत्वारिसिंहसुकवेः कवितारहस्यम् ।
किञ्चिन्च तव्रचितमात्मकृतं च किञ्चिद्-
व्याख्यास्यते त्वरितकाव्यकृतेऽत्र सूत्रम् ॥ २॥
वाचं नत्वा महानन्दकरसत्काव्यसम्पवे
कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयाम् ॥ ३ ॥
वाचं नत्वेति श्रेयोहेतुः । श्रेयसा ह्यविघ्नेन शास्त्रसमाप्तिर्भवति ।
महानन्दकरं यत्सत्काव्यं तस्य या सम्पद् वृद्धिस्तदर्थम् । सद्यो रसास्वादजन्मा
विगलितवेद्यान्तरा परब्रह्मरसास्वादसोदरा परप्रीतिर्महानन्दः । इदं सर्वप्रयोजनो-
पनिषद्भूतं कविसहृदययोः काव्यप्रयोजनम् । कल्पलताऽपि सङ्कल्पमात्रलभ्यत्वेन
महानन्दकरी । सत्काव्या सद्भिर्वर्ण्या या सम्पत् तदर्थं स्यात् । महानन्दः प्रयोजनं
तद्युक्तं सत्काव्यमभिधेयं शास्त्रमभिधायकं तयोरभिधानाभिधेयलक्षणः सम्बन्धः ।
शेषं सुगमम् ।
शास्त्रसङ्ग्रहमाह -
चत्वारोऽत्र च्छन्दःशब्दश्लेषार्थसिद्धिनामानः
क्रमशस्तताः प्रतानाः पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥ ४ ॥