2023-04-09 14:29:21 by ambuda-bot
This page has not been fully proofread.
२०
अन्तेवासिनां कृते दत्त-
वन्तः । व्याकरणवेदान्तज्योतिषसाहित्यादिविद्यापारङ्गतानाम्,
जीवनानां श्रीमतां प्रो० पारसनाथद्विवेदिवर्य्याणामुपकारराशि स्मारं स्मारं स्वकीयां
प्रणामाञ्जलिं विनिवेदयामि, यैरहं पदे पदे शिक्ष्ये । विदुषां वरेण्यानां नानाविधगौरव-
शालिग्रन्थप्रकाशनतत्पराणां सरलमृदुदयापूर्णहृदयानां प्रकाशनसम्पत्तिभिः विश्वविद्यालय-
संस्कृतिसंस्कृतगौरववर्द्धने दत्तजीवनानां प्रकाशनसंस्थानस्य निदेशकानां श्रीमतां
डॉ० हरिश्चन्द्रमणित्रिपाठिवर्य्याणां महोपकारराशिं संस्मरन् तान् पौन:पुन्येन
कृतज्ञतामावहामि प्रणमामि च, यैः कर्मण्यस्मिन् मुहुर्मुहुरहं प्रेरितः ।
काव्यकल्पलतावृत्तिः
ततः परं प्रकाशनसंस्थानस्य सहयोगिषु ईक्ष्यशोधनप्रवीणानां डॉ० हरिवंशकुमार -
पाण्डेयानाम् ईक्ष्यशोधकानां श्रीअशोककुमारशुक्ल भाटियोपाह्वातुलकुमाराणां
प्रकाशनसहायकानां श्रीकन्हईसिंहकुशवाहाप्रभृतिजनानामुपकारं संस्मरन् तेषामभ्युदयार्थं
चिरायुष्यार्थञ्च भगवन्तं प्रार्थयमान आशीर्वचोभिस्तानभिनन्दयामि । अतः परं
सरस्वतीभवनग्रन्थालयस्य शाखाभूते नवीनपुस्तकालये पटलसहायकपदे कार्यकराणां
श्रीबाबूलालशास्त्रिमहानुभावानामुपकारं स्मारं स्मारं स्वकीयं प्रणामाञ्जलिं विनिवेदयामि,
यतो हि तैः महानुभावैः पाण्डुलिपिगवेषणे सदा साहाय्यं प्राप्तः ।
विजयप्रेससञ्चालकानां श्रीगिरीशचन्द्रमहोदयानां कृतज्ञतां प्रकटयन् आशीर्वादान्
विंतरामि, यैर्महता श्रमेण वैज्ञानिकयुगेऽप्यस्मिन् हस्तटङ्कणेनास्य ग्रन्थस्य सुस्पष्टं सुन्दरं
मुद्रणं विधाय लोकानामस्माकञ्च महोपकारः कृतः ।
अन्ते ग्रन्थमिमं सश्रद्धया सभक्त्या भवानीविश्वनाथस्वरूपयोः श्रीसिद्धिदात्री-
जैगीषव्येश्वरमहादेवयोः श्रीचरणकमलेषु प्रणतिपरम्परापूर्वकं समर्पयन् आशासे यदनेन
सम्पादितेन ग्रन्थेन विदुषां छात्राणां कवित्वं बुभुत्सूनाञ्च यः कश्चिदप्युपकारो भवेत्,
तेनैवात्मानं कृतार्थं मन्ये । अन्ते टङ्कणदोषादिकस्य क्षमार्थं प्रार्थयमानो विरमामि ।
वाराणसी
माघपूर्णिमा
२०५८ वैक्रमाब्दः
}
विदुषां वशंवदः
ददन- उपाध्यायः
सहायकसम्पादकः, प्रकाशनसंस्थानस्य
सम्पूर्णानन्दसंस्कृतविश्वविद्यालये