2023-04-09 14:29:21 by ambuda-bot
This page has not been fully proofread.
भावभूमिः
कल्पादिकाले गुरुदेहदेशा
पिपीलिका राजति शैलतुया ।
तस्मिंश्च सत्यं धरणिधरोऽपि
विगाहते देवगिरीन्द्रशोभाम् ॥
पुनः शब्दान्तरेण -
अहो पयोराशिविलासियादः
पिपीलिका राजति शैलतुल्या ।
सदा जनानां महतां निषङ्गो
दत्ते लघूनामपि गौरवाणि ॥
१९
प्रकारान्तरेण सा समस्यापूर्तिः तत्रैवावलोकनीया । अन्यापि समस्यापूर्तिर-
लोकनीयास्ति । यथा-
१. तदेव, ४.७.१ ।
३. तदेव, ४.७.४ ।
कल्पान्तकालनलिनीकृतदेहदेशः
शैलो बिभर्ति परमाणुसमत्वमेषः ।
पूर्वं युगादिसमये विभराम्बभूव
यो जातरूपधरणीधरसन्निभत्वम् ॥
भङ्ग्यन्तरेण समस्यापूर्तिः सा तत्रैवावलोकनीया । इत्येत्सर्वं ग्रन्थत एवावगन्त-
व्यम् । विस्तरभयादत्र न विस्तारि ।
ग्रन्थोऽयं विश्वविख्यातसरस्वतीभवनपुस्तकालयाद् १०२८१७ संख्याकां हस्त-
लिखितपाण्डुलिपिं लब्ध्वा पाठादिशोधनादिप्रकारेण सम्यगालोच्य सम्पादितः । यद्यपि
संस्करणादस्मात्पूर्वमपि नैक-संस्करणं प्रकाशितम् ; परन्तु दृष्टिगोचरं नाभवत्, तस्मादेकेन
काशीसंस्करणेनात्रालोचितः पाठः । येषां विदुषां ग्रन्थाः साहाय्यरूपेण स्वीकृताः, तेऽपि
सर्वे मनीषिणो मया साभारैः सत्क्रियन्ते । सत्यन्त्विदं यद्यदि ते साहाय्यग्रन्था नाभविष्यंस्तदा
ग्रन्थस्यास्य सम्पादनं मह्यमसाध्यमेवाभविष्यत् । तत्रापि विशिष्टधन्यवादार्हाः सरस्वतीभवन-
पुस्तकालयस्याधिकारिणः कर्मचारिणश्च ये एतादृशं दुर्लभग्रन्थानां पाण्डुलिपिं प्राणवत्
संरक्ष्य मद्विधान् जनान् उपकुर्वन्ति ।
ग्रन्थमिमं सम्पादयन् कृतज्ञोऽहं महामान्यानां सरलहृदयानामगाधपाण्डित्यपूर्णानां
विशेषतो वेदान्तशास्त्रपयोधिपारदृश्वनां स्वविशिष्टप्रतिभाभिः सुनिबद्धानेकग्रन्थानां माननी-
यानां कुलपतिवर्य्याणां प्रो० राममूर्तिशर्ममहोदयानां पादपद्मे कृतज्ञतां हार्दिकी प्रकटयन्
प्रणमामि भूयो भूयः, यतो हि ग्रन्थस्यास्य सम्पादनाय स्वीकृति प्रदाय मामनुगृहीत-
२. का० वृ० ४.७.२ ।