This page has not been fully proofread.

p
 
काव्यकल्पलतावृत्तिः
 
सकृदुच्चारितोऽपि शब्दो यत्रार्थद्वयमर्थत्रयं वा द्योतयति स श्लेष उच्यते । अत्र
स्तबके श्लिष्टशब्दानां व्युत्पादनं सम्यक् कृतं वर्तते । श्लेषानां योजनाप्रकारोऽपि
वर्णितः । तृतीयप्रताने द्वितीयस्तबके सर्ववर्णनसिद्धिप्रकारः प्रदर्शितः । यथोक्तम्-
जनितश्लेषसंश्लेषैर्वर्ण्यवर्णादिनामभिः
 
१८
 
उपमानकृतोल्लासैः साधयेत् सर्ववर्णनम् ॥
 
वर्ण्यस्य वर्णाकाराधारक्रियाधेयानि नामानि तथा वर्ण्यादिगुणैर्वर्णसदृशानां पदार्थानां
नामानि श्लेषार्पितोपमानयुक्तानि कृत्वा सर्ववर्णनं कुर्वन्ति । तत्रैकेन श्वेतादिशब्देन
श्वेतादिपदार्थाः सर्वेऽपि वर्ण्यन्ते तत्सर्ववर्णनम् । तृतीये स्तबके उद्दिष्टवर्णनप्रकारः ।
चतुर्थे चाद्भुतविधिः, पञ्चमे च चित्रकाव्यप्रपञ्चः । एतत् सर्वं मनीषिभिर्ग्रन्थतोऽव-
लोक्यम् । एवं तृतीये प्रताने पञ्च स्तबकाः सन्ति । चतुर्थे प्रताने-
तुर्ये पुनरलङ्काराभ्यासवर्ण्याकृतिक्रियाः ।
प्रकीर्णाभिधः संख्यासमस्ये स्तबकाः स्थिताः ॥
 
प्रथमेऽलङ्काराभ्यासस्तबके उपमाद्यलङ्काराणां वर्णनं कृतम् । द्वितीये अर्थोत्पत्ति-
प्रकार: प्रदर्शितः । तत्रार्थानां वर्ण आकारः क्रिया आधार आधेयः सम्बन्धिनश्चैते केषां
के भवन्तीति वर्णितम् । तृतीये चतुरस्राकारपदार्थानां सङ्ग्रहः प्रदर्शितः । चतुर्थे
क्रियाभ्यासोत्पत्तिर्वर्णिता । पञ्चमे आधाराधेयपरिवारादिभ्योऽर्थोत्पत्तिर्वर्णिता । षष्ठे स्तबके
संङ्ख्यातोथोत्पत्तिः निरूपिता । यथा तैरैवोक्तम्-
औचित्यरचितैः संख्याबन्धबन्धुरितक्रमैः ।
उपमाद्यैरलङ्कारैः सुधीरर्थं समर्थयेत् ॥
तत्रैकसंख्याबोधकाः पदार्थाः निर्दिष्टास्तैः ; यथा-
आदित्यमेरुचन्द्रप्रसादा दीपदण्डकलशाश्च ।
खड्गहरनेत्रशेषस्वर्दण्डाङ्गुष्ठहस्तिकराः ४ ॥
 
सप्तमे स्तबके समस्याक्रमो निरूपितः तत्र काश्चन समस्याः प्रपूरितास्तैः । तत्र
 
समस्याः-
पिपिलिका राजति शैलतुल्या ।
 
शैलो विभर्ति परमाणुसमत्वमेव ।
पलायते
 

 
मृगात् सिंह:
 
तत्र समस्यापूर्तिः कथं कृता, सावलोकनीयास्ति ।
 
१. का० वृ० ३.२.१ ।
 
३. तदेव, ४.६.१ ।
 
२. तदेव, १.१.८ ।
 
४. तदेव, ४.६.२ ।