This page has not been fully proofread.

२०४
 
काव्यकल्पलतावृत्तिः
 
श्रीमद्वाय उगच्छवारिधिबिधोः पादारबिम्वद्वये
येन श्रीजिनदत्त सूरिसुगुरोः शृङ्गारभृङ्गायितम् ।
स श्वेताम्बरमौलिरत्नभरः श्रीवीरतोथंडर-
प्रह्वात्माऽकृतकाव्यकल्पलतिकावृत्ति सतां सम्मताम् ॥ ९॥
 
सिक्तेयमुद्धृतैः शास्त्राब्बिभ्यः सारसुधारसैः ।
काव्यकल्पलताऽऽकल्पं तनोतु सुमनो मुम् ॥ १० ॥
काव्यमेव परब्रह्मास्वादसोदरशर्मंदम् ।
आलोकं पालयामास कालिदासकवेर्यशः ॥ ११ ॥
 
वाल्मीकिव्यासयोविश्वे विश्वविङ्मूलकूलगा ।
कल्पान्तोल्लङ्घिनी कोतिः काव्यादेव विजृम्भते ॥ १२ ॥
 
॥ सम्पूर्णइवायं चतुर्थोऽर्थसिद्धिप्रतानो प्रन्थश्च ॥ ४ ॥
बन्दामहे मुदा शैबचण्डकोबण्डखण्डनम् ।
जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥
॥ श्रीसङ्कष्टनाशिनौ विजयतेतराम् ॥
 
॥ शुभं भवतु ॥