This page has not been fully proofread.

I
 
चतुर्थप्रताने सप्तमः स्तबक
 
श्रीरामरावणरणे कपिमण्डलेन
शस्त्रीकृतैर्मलयजदुमचक्रपालैः ।
रिङ्गद्भुजङ्गमकुलैः परितः स्फुरद्भिः
 
सम्भाव्यते नभसि सर्पपुरं प्रसपत् ॥ ५२ ॥
 
चण्डीशाभरणरूपेण भुजङ्गमलोकस्य सद्मगुरुताभिर्मंत्र्यंलोकस्या-
नभोलोकस्तत्रैवासोद्यथा-
श्रीकण्ठ कण्ठदोर्दण्डमण्डनै रहिमण्डलैः ।
 
अयं भुजगलोकोऽपि स्वर्लोककलिताश्रयः ॥ ५३ ॥
अभ्रंलिहगृहव्यूह चन्द्रशालाविलासिभिः ।
नरनारीगणैमंम्ये मयंलोको झुलोकगः ॥ ५४ ॥
 
उपमानैः समस्या पूर्यंते । उपमानानि सदृशवस्तूनि । यथा-
जन्मस्तोत्रे जिनेशस्य मेरो देवाङ्गनामुखैः ।
 
परितः स्फुरतैः शङ्के शतचन्द्रं नभस्तलम् ॥ ५५ ॥ इत्यादि ।
तद्गुणाधिक्येनेति चतुःश्लोकोपरि शेषपदम् । पदार्थस्य गुणादधिकगुण-
पदार्थेन समस्या पूर्यंते । यथा-

 
अथ स्वर्गे
 
वतरणं विधेयम् ।
 
त्रैलोक्ये स्फुरतः शुद्धयशसः पुरतस्तव ।
सोऽपि विश्वम्भरानाथ सोमः श्यामवपुर्बभौ ॥ ५६ ॥
 
तद्गुणाधिकं यशः ।
 
त्वद्गाम्भीर्यगुणस्याग्रे समुद्रो गोष्पदायते ।
सन्मानससरोजान्तगंगनं भ्रमरायते ॥ ५७ ॥
 
एवमोचित्येन तद्गुणाधिकत्वमारोप्यम् ।
 
॥ इति श्रीजिनदत्तसूरिशिष्य महाकविपण्डित श्रीमदमरचन्द्रविरचितायां
काव्यकल्पलता कविशिक्षावृतावर्थसिद्धिप्रताने चतुर्थे समस्यास्तबकः
सप्तमः सम्पूर्णः ॥ ७॥