This page has not been fully proofread.

You
 
२०२
 
काव्यकल्पलतावृत्तिः
 
कर्पूरपूरच्छविवादविद्यासंवावदूकधुतिशुप्रिताप्रे ।
इन्द्रोर्नृपद्वेषितमोवितानसूर्योदये रोदिति चक्रवाकी ॥ ४६ ॥
 
सूर्यं यावन्नुपसम्बोधनम् ।
 
श्रोहट्टकेश्वरजगर प्रलयग्रहास्त-
पाथोधिमन्यसमयप्रतिबिम्बभावैः ।
 
सङ्ग्रामचक्रिपुरचन्दनशस्त्रपातै-
वण्डोदशसध्यगुरुताऽपि रथोपमानः ॥ ८ ॥
 
एकैकभुवनेऽन्यभुवनानामवतारः । पूर्वं पाताले श्रीहट्टकेश्वरस्वामि-
नमस्कारेण स्वर्लोकावतारः । जगत्प्रलयेन मयंलोकावतारः ग्रहास्तेन नभोलोका-
वतारः । यथा – श्रीहट्टकेश्वरस्वामिनमस्करणकारणात् । सुरेन्द्रादिभिरायातैः ।
स्वर्ग: पातालमाययौ ।
 
-
 
कदाचिच्चारभेदेन क्रमादस्तमुपागतः ।
 
ग्रहैः सम्भाव्यते नूनं पातालं प्रययौ नभः ॥ ४७ ॥
 
-
 
अथ पृथिव्यां पायोधिमन्थनसमयेन स्वर्गपातालयोरवतरणम्, प्रतिबिम्ब-
भावेन नभोलोकावतरणं विधेयम् । यथा-
समुद्रमथनारम्भे मिलितैरमराविभिः ।
 
पृथिव्यां स्वर्ग : ताले दृश्येते स्फुटमागते ॥ ४८ ॥
दर्पणप्रतिमोल्लासिजलपूरसरोवरे ।
 
प्रतिबिम्बच्छलादेतद्भवि व्योम समागतम् ॥ ४९ ॥
 
अथ नभसि सङ्ग्रामेण स्वर्गस्य हरिश्चन्द्रचक्रिपुरेण मत्यंलोकस्य चन्दन-
शस्त्रपातरहिलोकस्यावतरणं विधेयम् । यथा-
रणप्रवणवीराणां विलोकनकुतूहलात् ।
समाया । सुरेन्द्राद्यैः स्वर्गो नभसि दृश्यते ॥ ५० ॥
आकाशान्तरसञ्चारिहरिश्चन्द्रपुरीच्छलात् ।
भौमस्य मिलनायेव जगाम जगतीं नभः ॥ ४१ ॥