This page has not been fully proofread.

चतुर्थप्रताने सप्तमः स्तवका
 
स्वप्नेन समस्या सिद्धयति । यतः स्वप्नेऽघटितमपि सर्व घटते । यथा-
निद्रामुद्रापरिचयलवान्मुद्रितानन्तचिन्ता
 
चित्ते चित्ते निभृतममृतज्योतिषि म्लानधाम्नि ।
प्रातः स्वप्नेऽरुणकपिशितं प्राग्दिशैकोऽथ कस्मा-
दाकाशस्थं जलचरपदं दृष्टिहीनो ददर्श ॥ ४२ ॥
अहो ज्योतिष्कलादक्ष मया स्वप्नेऽमुकं दृष्टं त्वं विचारयेत्यादि कल्प-
यनीम् । इन्द्रजालेनाघटमानमपि सर्वं घटते । तथा मतिभ्रमेणापि सर्वं घटते ।
चित्रे विसदृशमपि लिखितं सम्भवति । अहो चित्रकूदीदृशं चित्रं चित्रयेति वाक्यं
रचनीयम् । माययाऽपि विसदृशं सम्भाव्यम् । मणिमन्त्रौषधिप्रभावेण सर्वं
साध्यते । यस्मादचिन्त्यो हि मणिमन्त्रौषधीनां प्रभावः । तपसाऽपि सर्वं साध्यते
"यदूरं यदुराराध्यं यच्च दूरे व्यवस्थितम् ।
 
1
 
तत्सर्वं तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ४३ ॥
 
इति तपसाप्यघटमानं सर्वं घटते । पदभङ्गभाषादपि समस्या पूर्यतें, यथा-
'मृगात्सिहः पलायते' । मृगमत्तीति मृगात् सिंहविशेषणम् । पलाय मांसाय ते तव ।
अयं मृगः समायाति मृगात् सिंह: पलाय ते । ततो वेगात् पलायस्व त्वरितं
त्वरितैः पदैः । इत्याद्य॒यम् । शौर्योष्मणा वाच्छितेन मनोगत्या पुण्येनाघट-
मानमपि घटते । देवप्रसादे नासाध्यमपि साध्यते ।
 
निःश्रोकोऽपि विभीबिभातसमये पश्यत्यवश्यं मुदा
यस्ते पद्मसमानमानमनसो स्यादिन्दिरामन्दिरम् ।
श्रीवामेय किमु स्तुमस्तव परं यस्य प्रसादाद्भुतं-
र्मूको जल्पति संशृणोति बधिरः पञ्जुनंरोनृत्यति ॥४४॥ इत्यादि ।
 
प्रश्न समस्या पूर्यते । यथा -
 
कस्तूरी जायते कस्मात् को हन्ति करिणां कुलम् ।
 
कि कुर्यात् कातरी युद्धे 'मृगात्सिहः पलायते' ॥ ४५ ॥ इत्यादि ।
क्षयसमासविभिसमाध्यात् ।
 
समस्यायां यत्साध्यं पदं भवति तत् क्षयसमासेन विभिन्नं क्रियते सर्वापि
समस्या सिध्यति । यथा-
का० – २६