This page has not been fully proofread.

1:
 
चतुर्थप्रताने सप्तमः स्तबक:
 
हिमाद्रिविन्ध्यबन्धुश्रीः स्वर्ण मरकतप्रभम् ।
महीघव तव द्वेषिकुकीर्तिप्रसरैबभौ ॥ २१ ॥
सम्भ्यया वर्णविपर्ययो यथा-
पूर्वभूधर शिरस्तटीगतः सान्ध्यरागपटलैः परावृतः ।
प्रेक्ष्यतेऽत्र रजनोमुखेऽधुना विद्रुमप्रतिमदीधितिविधुः ॥ ३० ॥
 
अम्यवस्तूनां यथा-
कान्तकोपपरवामलोचनालोचनान्तविततारुणद्युतो
 
साम्ध्यरागपटले सति क्षणं कज्जलं भवति कुङ्कुमोपमम् ॥ ३१ ॥
स्वर्ण सिन्दूरपूरश्रि कर्पूरं पद्मरागरुक् ।
जपाकुसुमसङ्काशैः सन्ध्यारागभरैरभूत् ॥ ३२ ॥
अथ वर्णान्तरसास्तूनां वर्णविपर्ययः क्रियते ॥ ५ ॥
 
यथा-
शशिमुकुटललाटे शैलजांगण्डपाली-
विगलितमृगनाभिव्यक्तधर्माम्बुसिक्तः ।
समजनि नरकारिश्यामलो यामिनीशः
 
श्रयति मलिनसङ्गात् कश्मलत्वं न को वा ॥ ३३ ॥
मसृणघुसृणपङ्क प्रक्रियाप्राग्रजाग्र
 
त्कुचकलश विलासैः कम्बुकुन्दोज्ज्वलोऽपि ।
समरुणदरुणत्वं कामिनीकण्ठहारी.
 
जगति भवति रागो रागिसङ्गान कस्य ॥ ३४ ॥
क्षितिधरपतिपुत्रोमोक्तिकव्यक्तिमङ्गी-
निलयवलयमालाकान्तिजालावलीढः ।
 
हिमरुचिरुचिरासीनीलकण्ठस्य कण्ठो
 
भवति विमलयोगान्निर्मलत्वं न कस्य ॥ ३५ ॥
एबमनया रीत्या सर्वत्राप्यूह्यम् ।
 
धर्मध्यानव्यसनरसिका स्पष्टमष्टाब्दयोगात्-
केयं वाला पतितदशना पाण्डुरीभूतकेशा ।
भक्तिव्यक्तप्रणतशशभृत्पादजाग्रन्नखाग्र-'
क्योतिर्जालेस्त्रिवशतटिनीनोरधिक्कारधीरैः ॥ ३६ ॥