This page has not been fully proofread.

१६६
 
कृष्णरक्तपोतनीलादयो वर्णाश्चन्द्रेण श्वेताः क्रियन्ते । यथा-
पर्णोद्गम हिमद्योतयोतिविद्योतितोऽभितः ।
कैलासगिरिसङ्काशः काशते विन्ध्यभूधरः ॥ २० ॥
 
:
 
जपापुष्पं जातिसुमं सुवर्णं रजतप्रभम् ।
सुधाकरकरस्पर्शान्मषी चन्दनबद्धभौ ॥ २१ ॥
 
रक्तपीतश्वेतादयो वर्णा अन्धकारेण कृष्णाः क्रियन्ते । यथा-
कैलासो विन्ध्यसङ्काशः कर्पूरः कज्जलप्रमः ।
जपा तापिच्छगुच्छश्रीरन्धकारविनिर्ममे ॥ २२ ॥
 
कृष्णश्वेतादया वर्णा बालार्केण सन्ध्यार्केण रविणा वा रक्ताः क्रियन्ते ।
 
यथा-
कज्जलं कुसुमच्छायं जातीपुष्पं जपासुमम् ।
 
सुवर्णं पद्मरागञ्च प्रभातार्कप्रभावृतम् ॥ २३ ॥
 
अनया रीत्या सर्वत्राप्योचित्येन वर्णविपर्ययः क्रियते । यदि पुनचन्द्राग्ध-
काररवोणामिव वर्णविपर्ययः क्रियते तदा कोत्तिकुकोत्तिसन्ध्यादिभिरेतेषामेव
वर्णविपर्ययः क्रियते यदाऽन्यवस्तूनामपि चन्द्रादिभिरेव तैर्वर्णविपर्ययः क्रियते ।
 
"
 
यथा-
स्वर्धुनोसलिलसन्निभस्फुरत्ताव कीनन व कीर्तिमण्डलैः ।
विस्तृतैस्त्रिजगति क्षमापते शोतरश्मिरिव वीक्ष्यते रविः ॥ २४ ॥
 
अन्यवस्तूनां यथा-
मेदिनीदयित ताबकैर्भूशं सशः समुदयैः समुच्छ्रितः ।
क्षीरनीरनिधिसोमकोमलै: कज्जलं रजतसन्निभं बभौ ॥ २५ ॥
 
हिमाद्रिसदृशो मेरुकुङ्कुमं शशिसन्निभम् ।
भूमोधव भबत्कोर्त्या शोभिते भुवनत्रये ॥ २६ ॥
 
कुकीर्त्या, यथा-
भूमिपाल भवदीयविद्वषन्मे
दिनोपतिकुकीर्तिपङ्क्तिभिः ।
प्रावृषेण्यजलवाहकान्तिभिः श्यामलो जयति यामिनोपतिः ॥२७॥
 
अभ्यवस्तूनामपि यथा-
मेदिनीदयित ताबकद्विषत्संविसारिकुयशः कदम्बकैः ।
अन्धकारनिकरैचिवोदितैः कुसुमं जयति कज्जलोपमम् ॥ २८ ॥