This page has not been fully proofread.

२०६
 
काव्यकल्पलतावृत्तिः
 
कल्पान्तकालनलिनीकृतदेहदेशः
शैलो विर्भात परमाणुसमत्वमेषः ।
पूर्वं युगादिसमये बिभराम्बभूव
 
यो जातरूपधरणीधरसन्निभत्वम् ॥ ४ ॥
 
यतः कल्पान्ते सर्वे पदार्था लघवः सम्भवन्ति, ततः कल्पान्तेन गुरुपदार्थस्य
 
लघुत्वमारोप्यम् । दूरावलोकनेन, यथा-
यथा-
स्थूलोन्नतोऽपि परमाम्बरवर्तमान-
धावद्विमानचरखेचरकामिनीनाम् ।
 
अभ्यागतो नयनवर्त्मनि सत्यमेव
 
शैलो बिभति परमाणुसमत्वमेष ॥ ५ ॥
यतो दूरस्थितः पदार्थो गुरुरपि सूक्ष्म इव भासते । गुरुभियंथा -
कल्पान्तकालधरणीश्वरणप्रवृद्ध-
कोलाधिराजतनुमानविलोकनेन ।
 
शैलो बिभत परमाणुसमत्वमेष
 
नो कस्य लाघवमहो गुरुसन्निधाने ॥ ६ ॥
 
इत्यादिगुरुतरपदार्थर्गुरुपदार्थस्य लघुता विधेया। एवं ऐतित्रयमध्यायत्र या
रोतिरौचित्याद् घटते तत्र तया रीत्या लघुता विधेया ।
 
नीराविषु प्रतिशरोरवशेन युग्मम् ।
 
नोरदर्पणमणिभूमिप्रभृतिषु प्रतिबिम्बवशेन एकमपि वस्तु युग्मरूपं भवति ।
 
पश्चिमाद्रे मंणिशिरःक्रान्ते पूर्वोद्रिगे रखो ।
लोकैविंशङ्कयते कि भोः समुदेति रविद्वयम् ॥ ७॥
 
कृष्णेन बिम्बितबशेन च वैपरीत्यम् ॥ ३ ॥
 
अधोमुखी कृतकृष्णेन प्रतिबिम्बितेन वैपरीत्यं च कार्यम् । यथा -
कालिया हिग्रहव्यग्रे यमुनायां जगन्निधौ ।
झम्पयाऽधोमुखे जाते विपरीतं जगत्रयम् ॥ ८ ॥