2023-04-09 14:29:21 by ambuda-bot
This page has not been fully proofread.
भावभूमिः
वृत्तालङ्कारानुसारं योजनीया भवन्ति । द्वितीयप्रताने तृतीये स्तबके अनुप्रासालङ्कार-
सिद्ध्यर्थं केचन साधारणाः शब्दा वर्णिताः सन्ति । यथा-
राजितं राजिभिर्युक्तं पङ्क्तिभिः पटलैः पटुः ।
निचितं निचयैरौघैर्मोघं सञ्चयसञ्चितम् ।
पुञ्जेन मञ्जुजातेन सुजातं वृन्दसुन्दरम् ।
कदम्बचुम्बितं सार्धं कृतार्थं सगुणं गुणैः ॥
इत्येवमादीन्युदाहरणानि ग्रन्थकारेण वर्णितानि । एवं कृताभ्यासः कविः क्वचिदपि
स्वकाव्ये यथोचितमनुप्रासं योजयितुं प्रभवति ।
द्वितीयस्य चतुर्थे मुख्यलाक्षणिकव्यञ्जकशब्दानां साधु व्युत्पादनं कृतमस्ति ।
साक्षात्सङ्केतितार्थोपस्थापकाभिधाव्यापारवदभिधायकमुख्यशब्दानाम्, मुख्यार्थबाधाद्यनुसन्धान -
पूर्वकशक्यार्थसम्बन्धरूपलक्षणाव्यापारवल्लक्षकानां तथा व्यञ्जनाव्यापारवत् व्यञ्जकानां
शब्दानाञ्च साङ्गोपाङ्गविवेचनमत्र स्तबके कृतमस्ति ।
शब्दो मुख्यो लाक्षणिको व्यञ्जकश्च त्रिधा मतः ।
इत्येवमादिश्लोकैरुपवर्णितम् । गौणोऽपि शब्दः लाक्षणिकेष्वेवान्तर्भावितः । उपादानलक्षणा
लक्षणलक्षणा, गौणसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्धसाध्यावसानेति षड्विधा
लक्षणा निरूपिता । यथोक्तम्-
१७
शब्दव्यापारो निरन्तरार्थनिष्ठोऽभिधा मता ।
स तु व्यवधानार्थनिष्ठो भवति लक्षणा ॥
शुद्धोऽपचारमिश्राऽसौ द्विधा शुद्धापि हि द्विधा ।
उपादानलक्षणाख्या परा लक्षणलक्षणा ॥
उपादानो स्वसिद्ध्यर्थं पराक्षेपः यदा तु वै ।
परार्थं स्वार्पणं लक्षणेन लक्षणलक्षणा ॥
सादृश्याद् गौणसारोपा गौणसाध्यावसानिका' ।
इत्येवमादिभिः श्लोकैर्विस्तरेण सोदाहरणं वर्णितं सर्वं ग्रन्थत एव परिज्ञातव्यम् । तत्र
लक्षणार्हा: केचन शब्दा अपि गणिताः सन्ति ।
तृतीये प्रताने-
श्लेषव्युत्पादनं सर्वं वर्णनोद्दिष्टवर्णने ।
अद्भुतं चित्रमित्येते तृतीयं स्तबकाः कृताः ॥
तत्र श्लेषव्युत्पादनम्, सर्ववर्णना, उद्दिष्टवर्णना, अद्भुतं चित्रश्चेति पञ्चस्तबकाः
सन्ति ।
१. का० वृ० २.३.२-३ ।
२. तदेव, २.४.४-७।
३. तदेव, १.१.७ ।