This page has not been fully proofread.

1
 
अथ समस्याक्रमः ।
 
चतुर्थमताने सप्तमः स्तवको
 
अथ चतुर्थप्रताने सप्तमः स्तबकः
 
कल्पाविसिन्धुलघुभिर्गुरुता ।
 
लघो: पदार्थस्य कल्पादिकालेन सिन्धुना लघुभिश्च गुरुता विधेया ।
कल्पादिकल्पना यथा-
-
 
कल्पादिकाले गुरुदेहदेशा पिपीलिका राजति शैलतुल्या ।
तस्मिंश्च सत्यं धरणोधरोऽपि विगाहते देवगिरीन्द्रशोमाम् ॥ १ ॥
यतः कल्पादौ सर्वोऽपि पदार्थो गुरुतरो भवति, ततः सर्वत्रापि लघुपदार्थ-
स्यौचित्येन कल्पादौ गुरुत्वमारोप्यम् । सिन्धुना यथा-
-
 
अहो पयोराशिविलासियादः पिपीलिका राजति शैलतुल्या ।
सदा जनानां महतां निषङ्गो दत्ते लघूनामपि गौरवाणि ॥ २ ॥
यस्मात् ।
 
यथा-
यावन्तो वृश्यन्ते नरकरितुरगावयः स्थले जीवा ॥ १ ॥
तावन्तः सलिलेष्वपि जलपूर्वास्तेऽपि निर्विष्टाः ।
 
ततः समुद्रस्थितानां लघुनामपि जोवानां गुरुत्वमस्त्येव । लघुभिर्यथा-
कुन्थुप्रमाणेन महत्तमाङ्गी पिपीलिका राजति शैलतुल्या ।
यस्माद्धोऽधः परिदर्शनेन सदा लघुनामपि गौरवाणि ॥ ३ ॥ इत्यादि ।
एवं रीतिजयमध्याद् यत्र या या रोतिरौचित्येन घटते तया तथा रीत्या
सर्वत्रापि लघुपदार्थस्य गुरुताऽऽरोप्या ।
 
युगान्तदू रावलोकगुरुभिर्लघुता विधेया ॥ २ ॥
 
गुरुपदार्थस्य युगान्तेन दुरावलोकेन गुरुभिश्च लघुता विषेया । युगान्तेन