This page has not been fully proofread.

1
 
१९४
 
यथा-
यथा-
प्रेक्ष्याः ।
 
काव्यकल्पलतावृत्तिः
 
यथा-
विशत्या नयनैदोभिविंशत्या दशकन्धरः ।
 
पश्यन् श्लिष्यन् व्यधाद्वध्वाः स विशतिगुणं सुखम् ॥ २५ ॥
कमलवलरावणाङ्गलिशतमखजलषियोजनानि स्युः ॥ २७ ॥
शतपत्रपत्रादिमजिनसुतधृतराष्ट्रपतिसुताः ।
जयमाला मणिहारत्र जोऽत्ररुक्कीचकाः शतप्रमिताः ॥२८॥
 
हस्तेन क्षेदिक्षितिपः शतघ्नी
 
सुदासघात्याः शतमित्यमर्षात् ।
स्थाप्याश्च पञ्चेति महीं महाङ्घ्रि-
घातेन चक्रेऽङ्गुलिघातचिह्नाम् ॥ २६ ॥
 
पादाङ्गुलीभिर्युधि केऽपि केऽपि
 
कराङ्गुलीभिः परिचूर्णनीयाः ।
 
घात्या द्विषोऽमी शतमित्यमर्षात्
 
कृष्णासुतैः पश्चभिरप्यभाषि ॥ २७ ॥
अहिपतिमुखगलामुखपङ्कजवलर विकरेन्द्रनेत्राणि ।
 
विश्वामित्राश्रमवर्षार्जुनभुजसामवेबशाखाइच ॥ २९ ॥
पुण्यनरदृष्टचन्द्राः सहस्रसंख्या अमी ज्ञेयाः ॥ ३० ॥
 
सहस्रपत्रपत्राणां प्रत्येकं स्मेरताकृते ।
सहस्रकरविस्तारं कि सहस्रकरोऽकरोत् ॥ २८ ॥
 
एवमत्र ग्रन्थगौरवभयादसङ्कलिता अपि संख्या: काव्योपयोगाय प्रेक्षावद्भिः
 
इति श्रोजिनदत्त सूरिशिष्यपण्डित श्रीमदम रचन्द्रविरचितायां
काव्यकल्पलताकविशिक्षावृत्ती अर्थसिद्धिप्रताने
चतुर्थे संख्यास्तबकः षष्ठः ॥ ६ ॥