This page has not been fully proofread.

१८०
 
काव्यकल्पलतावृत्तिः
 
माहिष्मती भृगुकच्छ : काम्पिल्यं वारणावतम् ।
राजावः पृथुमान्धातृधुन्धुमाराः पुरूरवाः ॥ ११५ ॥
हरिश्चन्द्रो भरतश्च कार्तवीर्ययुधिष्ठिरौ ।
 
मनुः काकुत्स्थसगरी भगीरथनलौ रघुः ॥ ११६ ॥
अजो दशरथो रामकुशौ श्रेणिक सम्प्रती ।
विद्वन्नृपाः प्रतिष्ठा मे शालिवाहनभूपतिः ॥ ११७ ॥
 
उज्जयिन्यां विक्रमार्कमुञ्जभोजन रेश्वराः ।
 
मन्त्रिणो वाक्पतिः शुक्रो जाम्बवान् माल्यवानपि ॥ ११८ ॥
सालङ्कायन कूष्माण्डश्रुतशीलास्तथोद्धवः ।
यौगन्धरायणौ मुद्राराक्षसचणकात्मजः ॥ ११६ ॥
 
। इति श्रीजिनदत्त सूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचितायां
काव्यकल्पलताक विशिक्षावृत्ती अर्थसिद्धिप्रताने चतुर्थे प्रकीर्णकः
 
पश्चमः स्तबकः ॥ ५ ॥
 
॥ अथ चतुर्थप्रताने षष्ठः स्तबकः ॥
अथ सङ्ख्यातोऽर्थोत्पत्तिः कथ्यते ।
 
औचित्यरचितैः संख्याबन्धबन्धुरितक्रमैः ।
उपमाद्यैरलङ्कारैः सुधीरथं समर्थयेत् ॥ ३१ ॥
 
यदेकसंख्यः पदार्थो विवक्षितः स्यात्तदैकसंख्या अन्येऽपि पदार्थाः । यदा
द्विसंख्यस्तदाऽन्येऽपि द्विसंख्या: । यदा त्रिसंख्यस्तथान्येऽपि त्रिसंख्याः ।
एवमन्येऽपि तत्संख्या अलङ्कारेण केनापि सङ्कलिताः काव्ये सङ्गृह्यन्ते ।
उदाहरणानि स्वस्वसंख्यया दर्शयिष्यन्ते । एकादिसंख्यासङ्ग्रहो यथा-
आदित्यमेरुचन्द्रप्रासादा दोपदण्डकलशाइच ।
खड्गहरनेत्रशेषस्वर्दण्डा ङ्गुष्ठहस्तिकराः ॥ २ ॥
 
1