This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
इत्येवमादिभिरभ्युपायैः कविरयं सम्यक् शिक्षितवान् । एवं प्रथमप्रताने तृतीये स्तबके
छन्दःपूरणाय सामान्यशब्दानामेकद्व्यक्षरादीनां स्फुटं वर्णनं विलोक्य मन्दमतयोऽपि
कवित्वं बुभुत्सन्ते । यथोक्तं ग्रन्थकारेण-
१६
 
एवं साधारणैः शब्दरौचित्येन नियोजितैः ।
दक्षाः छन्दःसु सर्वेषु कुर्वन्ति पादयोजनम् ॥
साधारणाः शब्दा एकाक्षरा ग्रन्थतो द्रष्टव्याः, यथा - श्री सं० सन् द्राक् दिश् आ
नि श्राक् सु उत उत् श्रीमत् श्रेष्ठम्, ज्येष्ठमित्येवमादयः ।
 
प्रथमे चतुर्थे स्तबके वादाख्ये अनुप्रासयुक्तोक्तिः प्रदर्शिता । कथमनुप्रासो योज्य:
काव्य इति विशदं सानुप्रासशब्दावलीप्रदर्शनादिभिरुपायैः स्पष्टीकृतम् । एवं पञ्चमस्तबके
वर्ण्यानां स्थितिः प्रदर्शिता-
अथ वर्ण्यानि कथ्यन्ते तानि यानि कवीश्वरैः ॥
बबन्धिरे ॥
 
महाकाव्यप्रभृतिषु प्रबन्धेषु
 
कस्यां परिस्थितौ कुत्र देशे काले वा कविना किं वर्ण्यमपरिहार्यं यस्य वर्णनेन
कवित्वं प्रद्योतितं भवेदिति सर्वं विस्तरशः प्रोक्तम्, अतो ग्रन्थमिदवश्यं पठनीयम् ।
तदुक्तम्-
अनुष्टुप्छासनं छन्दोऽभ्यासः सामान्यशब्दकः ।
वादे वर्ण्यस्थितिः पूर्वप्रताने स्तबका मता: ३ ॥
द्वितीयप्रताने-
रूढयौगिकमिश्राख्या
 
यौगिकाह्वानमालिका ।
 
अनुप्रासो लाक्षणिकः द्वितीये स्तबकाः स्मृताः ४ ॥
 
छन्दःसु अनुष्टुब्वर्ण्यादिषु सम्यग्विवेचितेषु तदनन्तरं काव्यशरीरभूतस्य शब्दस्य
विवेचनं क्रमप्राप्तं द्वितीये प्रताने विस्तरेण कृतमस्ति । तत्र प्रथमे स्तबके-प्रकृतिप्रत्यय-
विभागार्हा यौगिकाः, पाचकपाठकादयः अनादिप्रसिद्धिमागताः प्रकृतिप्रत्ययविभागान
रूढाः, अखण्डलमणिनूपुरादयो योगरूढाः, मिश्रिताः पङ्कजादयश्च त्रिविधा: शब्दा
अत्र विवेचिताः सन्ति । द्वितीयस्य द्वितीये योगार्हनामके स्तबके-
भवन्ति यौगिकाः शब्दाः समासव्यासहेतवः ।
तद्योगार्हाणि नामानि कत्यपि प्रतिपादये" ॥
 
अत्र समासव्याससिद्ध्यर्थं परावृत्तिसहाः शब्दा: केचन वर्णिताः । एवंविधाः
शब्दाः क्वचित् पूर्वपरिवृत्तिसहाः क्वचित् परपरिवृत्तिसहा भवन्तीति कविभिः प्रसङ्ग-
३. तदेव १.१.५ ।
 
१. का० वृ०, १.३.४ ।
४. तदेव १.१.६ ।
 
२. तदेव १.५.१ ।
५. तदेव, २.२.१ ।