This page has not been fully proofread.

काव्यकल्पलतावृति।
 
वर्णाकारयोः सदृशपदार्था उक्ताः । अपरः प्रकीर्णकः सदृशवस्तुसङ्ग्रह ।
 
क्रियते । यथा-
१८२
 
तोक्ष्णानि प्रतिभास्त्राणि कक्षायाः सूचिका नखा
दात्रशल्लकशूलानि कुठारः क्रकचस्तथा ॥ ३३ ॥
असिपत्रद्रुपत्राणि शूलप्राजननेमयः ।
 
किटिदंष्ट्रा हलं सिंहनखरा मर्मभिद्वचः ॥ ३४ ॥
कुश्यकुशाग्राणि खड्गधारा च हीरकः ।
कर्त्तरी कर्तिकाटङ्काबिन्धनं नखभेदिनी ॥ ३५ ॥
 
महत्तमानि दिक्कालव्योमज्ञानेशकेशवाः ।
आरामः सन्मनीबुद्धिसमुद्रारण्यभूयमः ॥ ३६ ॥
शय्याडर: पुलिनं श्रोणी कपाट. क्षेत्रवेश्मनी ।
सूक्ष्माणि कशसूच्यग्रव सरेणुरजःकणाः ॥ ३७ ॥
मनः सन्मतिसंसारस्वरूपपरमाणवः ।
 
मङ्गल्यानि दधिदुर्वाचन्दनाक्षतदीपिकाः ॥ ३८ ॥
रसालपिप्पलाशोकपत्राण्यब्जसुमं फलम् ।
शङ्खसिद्धार्थको सिद्धमन्नं मध्वाज्यमामिषम् ॥ ३८ ॥
रूप्यं ताम्रं मणिः स्वर्णभूषणान्यंशुकानि च ।
 
व्यजनं चामराश्छत्रं ध्वजो यानेभवाजिनः ॥ ४० ॥
 
ताम्बूलं गीतवादित्रगुरुबन्दिद्विजाशिषः ।
सुस्वप्नशकुने हंसचाषखञ्जनबहिणः ॥ ४१ ॥
अङ्गनास्फारश्वङ्गाररूपा प्रेमवती प्रिया
श्रीवत्समत्स्यदर्पणभद्रासनवर्धमानवरकलशाः ॥ ४२ ॥
 
स्वस्तिकनन्द्यावर्त्तावष्ट महामङ्गलान्याहुः ।
अमङ्गल्यानि धूकाहिकपोतशश कौतवः ॥ ४३ ॥
कुकलासो दुःशकुनं दुःस्वप्नं दुरुपश्रुतिः ।
कृतघ्नान्त्यजपाषण्डपतितारिविलापिनः ॥ ४४ ॥
 
नग्नच्छिन्नाङ्गरोगातंदीनब्रह्मादिघातिनः ।
सम्मार्जनी खराजाधिरजो धूमश्चितोद्भवः ॥ ४५ ॥