This page has not been fully proofread.

१७८
 
काव्यकल्पलतावृत्तिः
 
ताटङ्कामुक्तमुक्तालिच्छलतस्तारकाततिः ।
निजभर्तृभ्रमेणेयं भेजे चन्द्रमुखीमुखम् ॥ ७ ॥
यत्र वैदूर्यवर्येषु कुट्टिमेषु तमीभ्रमात्
प्रतिबिम्बेन तद्भित्ती पतिरापतति त्विषाम् ॥ ८ ॥
भ्रमकारिणोऽपि प्रतिबिम्बता यथा -
 
यथा-
मणिन द्वेषु यत्सौधाङ्गणेषु प्रतिबिम्बितम् ।
शशाङ्कं कैरवभ्रान्त्या भजन्ते भृङ्गराजयः ॥ ६॥
कार्यप्रवृत्तिरन्यत्र कारणप्रत्यये भ्रमात् ॥ १३ ॥
 
यथा-
एकत्र क्वचिदेव देवसदने सम्प्रेक्ष्य साक्षात्कृत-
प्रद्योतं तपनीयकुम्भमुदयक्ष्माभृद्भृतार्कभ्रमात् ।
आश्लिष्यन्त्यनिशं निशास्वपि वियद्गङ्गारथाङ्गयो मिल-
द्भर्तृभ्रान्तिभृतः पयोगतनिजच्छायां विमुग्धाशया ॥१०॥
कार्यप्रवृती भ्रमतः साफल्यं जायते क्वचित् ।
 
यथा-
विधुमणिमयसोधप्राङ्गणे यत्र चन्द्र-
प्रतिमितिमतिफुल्लत्कैरव प्रान्तिभाजः ।
असकृदमृतबिन्दुस्यन्दपानेन भृङ्गाः
 
प्रसृमरमकरन्दास्वादसौख्यं लभन्ते ॥ ११ ॥
यत्रोन्मुखं चातकवृन्दमश्रभ्रमेण चैत्योत्थितषूपघूमे।
वेल्लत्पताकाग्रग ही तमुक्तनभोनदीबिन्दुभिरेति तृप्तिम् ॥ १२ ॥
भ्रमात् कार्यस्य नैष्फल्ये भ्रमः सत्येऽपि वस्तुनि ॥ १४ ॥
 
आलिङ्गोच्चैः सुरगृहशिरःशात
कौम्भीयकुम्भान्
 
भर्तृभ्रान्त्या निशि विफलिताः स्वगंगङ्गारथाङ्गमः ।
अर्कालोकादुपगतमपि प्रीतिभाजं रथाङ्गं
 
मिथ्या बुद्धा सपदि न परीरब्धुमासद् त्वन्ते ॥ १३ ॥