This page has not been fully proofread.

चतुर्थ प्रताने पश्चमः स्तबकः
 
समानवस्तुनः शोभाचौर्यान्नाशीज्य निग्रहः ॥ १० ॥
 
वर्ण्याङ्गसदृशं यद्वस्तु तस्य वर्ण्याङ्गशोभाचौर्यं परिकल्प्य वनादिषु
नाशो निग्रहो वा कल्पनीयः । यथा - मृगा नारीनयनशोभां हुत्वा वने नष्टाः ।
स्त्रीमध्यश्रियं हृत्वा सिंहो गिरिगह्वरे गतः । नारोमुखलक्ष्मीहरं कमलमिति
राजहंसे: खण्डशः क्रियते । रात्री स्त्रीमुखलक्ष्मी हरति चन्द्र इति प्रातःकालेन
च्छिन्नकरः क्रियते ।
 
निपातायतनद्रव्यभप्राकारलङ्घनैः
 
राजवेषासनस्थानविरुद्धादिनिषेवणैः
 
अगम्यगमनापेयपानकाभक्ष्यभक्षणैः ।
 
अपह्नवाद्भवेद्दिव्यं प्रायश्चित्तं तदन्यतः ॥ १२ ॥
 
दिव्यं यथा-
हृत्वाऽपि कान्तिधनमस्य नृपस्य कीर्ते-
दिव्यं सृजन्निव जगत्यपवादभीतः ।
इन्दुः सुधावपुरपि प्रभुरोषधीना-
प्रायश्चित्तकरणं यथा-
मप्येष लक्ष्ममिषसर्पभृतौ न शुद्धः ॥ ४ ॥
 
का०-२३.
 

 
॥ ११ ॥
 
-
 
समरे यत्करवालः पोत्वा मातङ्गकुम्भकीलालम् ।
अनुतापीव व्रतयति रिपुनृपतीनां यशः क्षीरम् ॥ ५ ॥
अथ भ्रमप्रकारैरर्थोत्पत्तिर्यथा-
स्वस्यादिभिर्भ्रमात् कार्य प्रवृत्तिः परिकल्प्यते ।
 
स्वस्थच्छद्मस्थप्रतिबिम्बस्थता पूर्ववत् । क्रमाद्यथा-
नलिनानि पानमधुभाजनानि नः
 
पिदधाति यः स विधुरेष गोचरः ।
इति रोषणैरिव मधुव्रतैर्घुतं
 
सुदतीमुखं सुरभिचारुमारुतम् ॥ ६ ॥
 
-
 
१७७