This page has not been fully proofread.


 
काव्यकल्पलतावृत्तिः
 
स्थूलोऽभूत् । मुखशोभां प्राप्य चन्द्रः स्वातिचकोरान् स्वेच्छया ज्योत्स्नापानं
कारयति । मुखलक्ष्मीं लब्ध्वा कमलं हंसद्विजानतिथीन् भृङ्गानाहारदान:
प्रोणयति । मुखोपमां प्राप्य चन्द्रेण स्वकलया शिवपूजा कृता । एवं चले नृत्य-
मुच्चे गर्वोत्कन्धरता, विस्तीर्णे स्मेरता, पूज्ये गौरवं, शिरःस्थवस्तुन्यापीडः,
स्थूले पुष्टता, कल्पनीया । इत्याद्यनेकोल्लेखैरर्थ: कल्पनीयः । अर्थोत्पत्तये
प्रकारान्तरमाह -
 
द्वेष्यस्याङ्गसुहृद्भः—
 
वर्ण्यवस्तुना जितो यः पदार्थस्तस्य वयं तावद्वेष्यम् । ततो द्वेष्यस्य
वर्ण्यस्य यान्यङ्गानि तेषां साम्येन सुहृदूपाणि यानि वस्तूनि तेषां जित-
पावद्भङ्गः कल्पनीयः । यथा नार्या कुचाभ्यां जितः कुम्भो नारीमुख-
मित्राणि कमलान्युन्मूलयति । नार्या मध्यजित: सिंहो नारीनेत्रमित्राणि
मृगकुलानि भिनत्ति ।
 
अविद्वेषिपोषणैः ।
 
द्वेष्यस्याङ्गानां समतया द्वेषिरूपाणि यानि वस्तूनि तेषां जितपदार्थ-
पांवत्पोषणं कार्यम् । यथा राज्ञा प्रतापजितोः रविः राजयशोमित्रचन्द्रद्वेषिणं
कमलानि सश्रीकानि कुरुते । राज्ञा यशोजितश्चन्द्रो राजप्रतापमित्ररविद्वेषिणः
कैरमाणिः विकासयति ।
 
अद्वेषिद्विषरपोषैः-
द्वष्याङ्गद्वेषिणां ये सुहृदस्तेषां जितपदार्थ पावत् पोषो विधेयः । यथा । नार्याः
मुखजितश्चन्द्रः स्त्री कटाक्षद्वेषिषट्पदश्रेणिप्रोतिदायोनि करवाणि विकासयति ।
नार्या गतिजितो हस्ती मुखद्वेषिकमलोपासकान् भृङ्गान् दानेन पुष्णाति ।
 
अद्वेषिद्विषद्वधैः ॥ ९॥
 
द्वेष्याङ्गद्वेषिणां यानि द्विषद्रपाणि वस्तूनि तेषां जितपदार्थ पावद्विधो.
विधातव्यः । यथा । नार्या धम्मिल्लजितो राहुः स्त्रीमुखद्वेषिकमलद्वेषिणं,
नारीकुचयुष्मद्वेषिचक्रयुग्मद्वेषिणं वा चन्द्रं पीडयति । नार्या वेणीजिता भृङ्गश्रेणी
स्त्रीमुखद्वेषिचन्द्रद्वेषि कमलानि पदाघातैः पराभवति ।
 
25