This page has not been fully proofread.

भावभूमिः
 
ग्रन्थवर्ण्यविषयः
तत्र स्वयमेव ग्रन्थकारः प्राह -
 
चत्वारोऽत्र
 
च्छन्दः शब्दश्लेषार्थसिद्धिनामानः ।
क्रमशस्तताः प्रतानाः पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥
काव्यकल्पलताख्यग्रन्थस्यावान्तरप्रकरणान्यपि समुचितप्रतानशब्दैः ख्यातानि तद-
वान्तरविभागा अपि तद्योग्यस्तबकशब्दैर्निधारितानि । एवञ्च ग्रन्थे लतात्वारोपो यथा
तथैवानुरूपं विभागप्रविभागेषु प्रतानत्वस्तबकत्वारोप इति श्लिष्टतरम् । प्रतानाः छन्द:-
सिद्धिः शब्दसिद्धिः श्लेषसिद्धिः अर्थसिद्धिश्चेति । तत्र नियतस्वरवर्णरागरचनारूपस्य
काव्यकलेवरातिशयसौन्दर्याधायकस्य वर्णनावृत्तिप्रवाहापादकस्य सहृदयश्रोतृजन्यश्रवण-
पुटप्रीतिपानोत्कटतासम्पादकस्य छन्दसः प्रथमं प्रतानं पञ्चमिः स्तबकैः अनुष्टुप्छासन-
छन्दोऽभ्यास-सामान्यशब्दकवाद-वर्ण्यस्थितिरूपः क्रियते । तत्रापि अनुष्टुभः वैदिक-
त्वेनार्हत्वात् प्रथममुपादानं क्रियते ।
 
प्रथमप्रताने छन्दसामनुष्टुपाथेन्द्रवज्रोपेन्द्रवज्रावंशस्थशालिनीमालिनीपुष्पिताग्रा-
वसन्ततिलकादीनां लक्षणपुरस्सरं तदभ्यासविन्यासपाटवप्रकाराः कविना प्रयोगप्रक्रियाद्वारा
वर्णिताः । तेषामध्ययनेन सद्य एव छन्दसां प्रयोगे कवित्वं प्रापणेच्छुका: कवित्वबीज-
संस्कारसम्पन्ना लब्धकवित्वाः प्रौढारूढकवितारश्च भविष्यन्तीति नात्र संशयः ।
 
तत्र बहव उपायाश्छन्दसामतिशीघ्राभ्यासाय ग्रन्थकारेण प्रदर्शिताः, यथोक्तम्-
कथापुरादिसर्वार्थदिनकृत्यादिवर्णनैः
 

 
लोकानां दुष्टचेष्टाभिः छन्दोभ्यासं समर्थयेत् ॥
तदर्थान्यपदैः स्वान्यश्लोकार्थपरिवर्तनात् ।
 
तत्रैव च्छन्दस्यभ्यस्येदन्यच्छन्दोऽन्तरेष्वपि ॥
 
यथा-
छन्दसां कियदभ्यासानन्तरमपि सुधीः शेषछन्दसां सिद्ध्यर्थं छन्दोमर्माणि
चिन्तयेत् । कियत् कुत्र वर्णस्वरपरिवर्तनपरिवर्धनपरिहरणादिभिः छन्दोविशेषसिद्धिरिति
मुहुश्चिन्तयेत् । यथोक्तं तेनैव-
कियन्मात्रेषु सिद्धेषु च्छन्दः स्वभ्यासतः सुधीः ।
शेषाणां छन्दसां सिद्धौ छन्दोमर्मणि चिन्तयेत् ॥
 
१५
 
रथोद्धता ।
 
मञ्जुभाषिणी ।
 
इन्द्रवज्रायां चतुरक्षरा नगरेण वसन्ततिलका ४
 
भद्रिकायामन्ते गलाभ्यां
 
रथोद्धतायामादौ गुरुणा
 
१. का० वृ० १.२.९ ।
 
३. तदेव, १.२.१२ ।
 
२. तदेव, १.२.११ ।
 
४. तदेव, पृ० १४-१५ ।