This page has not been fully proofread.

चतुर्यप्रताने पश्चमः स्तबका
 
१७५
 
तवाप्ती पुष्कृसं विघ्नः—
 
तपसा वण्यंलक्ष्मोप्राप्ती जितवस्तुनः किञ्चिदुष्कृतं विघ्नः कल्पनीयम् ।
यथा । कमलं शम्भोरम्भोमूर्ते: सेवया मुखोपमामयास्यत्, चेन्नित्याश्रित-
भृङ्गबन्धनं नाकरिष्यत् । विष्णुपदसेवासुकृतेन विष्णुपदो तत्कीर्तितुलनां
प्राप्नुयायदि नीचगमनं न कुर्यात् ।
 
तदाप्तावपरं शुभम् ।
 
तपसा वयंशोभाप्राप्तो सदृशवस्तुनोऽन्यदपि श्रेयः सम्भाव्यम् । यथा
कमलं जलवासादिभिर्मुखोपमां प्राप्य लक्ष्मीस्थानं राजहंस सेव्यं च बभूव ।
जलबासादिभिः पाञ्चजन्यो नारीकण्ठोपमानं प्राप्य लक्ष्मोपतेरपि करारविन्दा-
नुप्राह्मो बभूव ।
 
श्रेयस्तवाप्तौ दोषेऽपि -
 
तपसा वयं स्योपमात्राप्ती सदृशवस्तुनः सदोषस्यापि श्रेयः कल्पनोयम् ।
यथा जलवासादिभिर्मुखोपमा प्राप्तं कमलं सकण्टकमपि देवशिरांस्यधिरोहति ।
विष्णुपवसेवया गङ्गा तत्कोतिसमतां प्राप्य नीचगामिन्यपि शिवशिरः संध्या-
सीच ।
 
तबाप्तौ नर्त्तमादिकम् ॥ ७ ॥
 
तपसा वर्ण्योपमाप्राप्ती हर्षेण सदृशवस्तुनो नर्तनादीनि कल्पनीयानि ।
अनूनि यथा -
 
नृत्योत्कम्षरता स्मेरगौरवापोडपुष्टता ।
 
आश्रितातिथिविप्राविदानं देवाविपूजनम् ॥ ८॥
 
यथा । जलवासादिना स्त्रीमुखोपमां प्राप्य कमलं वातचलितपत्रैर्नृत्यं
रचयति । राशः स्थैर्योपमां प्राप्य मेरुरुत्कन्धरोऽभूत् । गाम्भीर्योपमां प्राप्य
जलधिः सर्वदिव्यापी बभूव । मतिसमतां प्राप्य बृहस्पतिर्देवगुरुतां गतः ।
सुकेशीकेशोपमां प्राप्य कलापी शिखाच्छलादापीडं धत्ते। स्थैर्योपमां प्राप्य
गिरिः शिरःस्थमेघावलिब्याजाम्मुकुटं धत्ते । राज्ञः स्थैर्योपमां प्राप्य मेवा