This page has not been fully proofread.

चतुर्थप्रताने पञ्चमः स्तंबंका
 
बेवासुकृततः श्रेयोऽन्तरप्राप्तिद्विषन्जयः ।
 
यथा । गतिजितो हंसो यद्भारतीपदसेवां चक्रे तेन सुकृतेन तज्जातिरपि
मधुरशब्दाऽऽसोत् । मध्यजितः सिंहो यत्पावंतीपदसेवां चक्रे तेन सुकतेन
. स्वजाति राज्यमन्यैरनाक्रमणोयत्वं च लेभे । जितया कमलश्रिया कामिनीमुखा-
श्रयणेन निजंरिपुश्चद्रोऽपि जीयते स्म । मुखजितचन्द्रेण स्फटिकादर्शच्छद्मना
कामिनीमाश्रित्य स्वोदयेऽपि सदा विकासि सश्रीकं करच्छद्म कमलमधः क्रियते,
मुकुलीक्रियते च ।
 
१७३
 
वर्ण्य वस्तुनः स्पर्षापापेन सदृशं वस्तु सबूषणं कल्प्यम् ॥ ४ ॥
यथा – मुखस्पधि कमलं स्पर्धोद्भवपापै राजप्रसादविकलं सकण्टकं च
जातम् । यशःस्पर्धी चन्द्रः सकलङ्कः क्षयी च जातः ।
 
सुकृतेऽपि सदोषता-
यथा । वर्ण्यवस्तुनः स्पर्धापात केन सदृशवस्तु सुकृतं कुर्वाणमपि सद्दूषणं
स्यात् । यथा । मुखस्पर्धा कुर्वन् चन्द्रो महेश्वरं सेवमानोऽपि सकलङ्कोऽभूत् ।
मुखस्पर्धोद्भवेः पापैः कमलं हंसद्विजानु शरीरखण्डैरपि प्रीतान कुर्वाणं सकण्टकं
 
- भवति ।
 
अथ तपसाऽर्थोत्पत्तिभेदाः ।
 
स्यात्तपः स्वगतं छद्मगतं च प्रतिबिम्बगम् ।
तपोविधिस्त्रिधा । आत्मनैव स्वयं कृपमु, सदृशवस्तुच्छधना वा कृतम्,
जलादिषु प्रतिबिम्बतया वा कृतम् । त्रिविधमप्यने उदाहरिष्यते ।
 
वर्ष्यादिभिस्तपो वर्ण्यजितस्यैतत्कलाप्तये ॥ ५ ॥
वर्ण्यजितस्य वस्तुनो वयंथोमा प्राप्तये वर्ण्य जयाय वा बनादिभिस्तपः
कल्पनीयम् ।
 
स्वगतं यथा-
मुखजितं कमलं तच्छोभाप्राप्तये जलवासादि तपः कुरुते ।
 
23