2023-04-09 14:29:58 by ambuda-bot
This page has not been fully proofread.
२७२
काव्यंकल्पलतावृत्तिः
ताडनच्छेदनघनप्रहारटङ्किकाघातादिकष्टमनुभूतं, यद्देवादिमण्डनतयां कान्द्री
भूषणतया लोकाप्यायकभोजनोदकाद्याधारतया देवदेव्यादियन्त्राधारतया लोको-
पकारः कृतस्तैः सुकृतैर्धातुमयादिवस्तुनः शुभस्थानादि सम्भाव्यम् । पाषाणमये
वस्तुन्येते भावा भाव्या: । यत्पूर्वं टङ्कविदारणघनप्रहारटङ्किकाघातांदिकष्ट-
मनुभूतं यद्धर्मस्थाने देवतादिहेतुतया परोपकारः कृतस्तैः सुकृतैः पाषाणमय-
वस्तुनः शुभस्थानादि सम्भाव्यम् ।
कष्ट-
चर्ममये वस्तुन्येते भावा आरोप्या: । यत्पूर्वं कर्तिकाच्छेदनक्षारक्षेप-
विक्रयचर्मकारपादपातरम्पिकाच्छेदसूचिकावेघदव
रकबन्धव्यङ्ग प्रहारादि
मनुभूतं यत्पादत्राणतया ब्राह्मणाद्यपयोगिकरपत्रिकादिकतया पुस्तकाद्यावरण-
तया इत्यादिभिः परोपकारः कृतस्तैः सुकृतैश्चर्ममयवस्तुनः शुभस्थानाचूह्यम् ।
कापससूत्रमये वस्तुन्येते भावा भाव्याः । यत्पूर्वं शीतवाताद्ययाचिताम्बुपान-
कर्म करनखच्छेदविक्रयापवरकान्तरक्षेपलोहोपल घर्षणतुलारोहह्णान्तःसाराकर्षण-
पिञ्जघातनविदारणयन्त्रारोहतर्क भ्रम्याकर्षणतन्तुवायकराकर्ष णकाष्ठ प्रहार विप
णिक्रियादि कष्टमनुभूतं तुलेन, तूलिकादिरूपतया वस्त्रेण परगुह्याच्छादन-
-देवतादिपरिधानादितया लोकशीतातपादित्राणादितया परोपकारः कृतस्तैः
सुकृतैः कार्पाससूत्रमयवस्तुनो भव्यस्थानादि सम्भाव्यम् । एवं सर्ववस्तूनां
पूर्वकृतं कष्टं सुकृतं वाऽऽरोप्य भव्यस्थानाश्रयादिभिरर्थः समर्थनीयः ।
जितस्य सेवा स्वगता छगा प्रतिबिम्बा ॥ ३ ॥
जितस्य द्वौ प्रकारी भवतः । विदेशगमनं जेतुः सेवाकरणं वा ।
विदेशगमनं वनादिषु प्रपञ्चितम् । सेवा तु त्रिविधा । स्वगता यथा-
भारत्या गतिजितो हंसः पदसेवां चकार ।
पार्वृतीमध्यजितः सिंहः सेवां कुरुते सदा ॥ १ ॥
छमना यथा-
कामिन्या वक्त्रजितः सर्पो वेणीमिषादनुचरीभूतः ।
मुखजितश्चन्द्रश्चन्दनवृत्ततिलकच्छद्मना सेवते ॥ २ ॥
प्रतिबिम्बगता यथा -
मुखजितश्चन्द्रः कपोलप्रतिबिम्बतयाऽनुप्रवेशं चक्रे ।
जलमाधुर्येजितश्चन्द्रः प्रतिबिम्बतया सरः सेवते स्म ॥ ३ ॥
इत्याद्यूह्यम् ।