This page has not been fully proofread.

चतुर्थप्रताने पश्च॑मः स्तबंकः
 
१७१
 
बैंकः सरितटे । मोनो ध्यानं कुरुते । तुङ्गत्वजितो मेरुलोकोऽदृश्ये स्थाने निश्चली-
बभूव । मुखजितं कमलं भ्रमरारमंत्रान् जपति । नखजितानि रत्नानि गिरो
निराहाराणि तस्थुः । अधरजितानि प्रवालानि जलमध्ये जलाहारतया वर्तन्ते ।
अङ्गसौकुमार्यंजितं शिरीषकुसुमं वनेऽयाचितवृत्ति कुरुते । मुखजितं कमलं
भ्रमराङ्घ्रिघातैरपि क्षमां कुरुते । उदाहरणानि । वर्ण्यन जितपदार्थस्येत्यादिमि-
रुपायैरर्थः समर्थनीयः ।
 
लज्जाको पतपोनाशसेवा क्रन्दास्यकृष्णताः ।
 
रागारपाण्डुरता शस्त्रोविषझम्पादियोजिने ॥ २ ॥
 
वर्ण्यजितस्य वस्तुनः पराभवोद्भवा एते लज्जादयो भावा यथोचित्यं
योजनीयाः । यथा - मुखजितं पद्मं लज्जयेव वनं गतम् । कोपतप्तमिव
जलाशयं ययौ । नद्यामाकण्ठमग्नं जलाहारतया तपस्तनुते । अथवा जलदुर्ग-
नष्टं शम्भोरम्भोमूर्तेर्वा सेवां करोति । भ्रमरावैरानन्दं कुरुते । नीलालिभिः
कोकनदमनुरक्ततां धत्ते । नेत्रजितं कैरवं दुःखात् पाण्डुरतां गतम् । भृङ्गश्रेणी-
मिषादुदरे शस्त्रों क्षिपति । जलान्तझंम्पां ददौ । भृङ्गमिषाद्वा विषं भक्षयति ।
एवं यो रक्तपदार्थः स सदृशेन जितः कोपादिव रक्तोऽप्यथवा कयाचियुक्त्या
सानुरागो भणनीयः । य श्वेतः श्यामश्च सदृशजितो दुःखादिवोत्पाण्डुरः कृष्णश्च
समर्थनीयः ।
 
वृक्षाङ्गाविजवस्तूनां बनाद्यैः सत्पदादिकम् ।
 
किञ्चिद्वस्तु वृक्षाङ्गादिमयं किञ्चिन्मन्मयं किञ्चिद्धातुमयं किञ्चित्
पाषाणमयं किञ्चिद्धर्ममयं किञ्चितकापसमयमित्यादिवस्तूनां वनवासादि-
तपोभि: शुभस्यानाश्रयशुभाकारशुभक्रियाशुभपरिवारादीनां प्राप्तिः सम्भाव्या ।
यद्वृक्षाङ्गादिमयं वस्तु तस्यैते भावा विभाव्याः । यत्पूर्वं वृक्षभवे रवितापशीत-
वातादिकष्टमयाचितव्रतादिभिस्तपस्तप्तं
तम्मूलत्वक्पणपुष्पफलच्छायादिभिः
सूर्यातपतप्तानां रोगार्तानां भोगार्थिनां मङ्गलायिनां मर्त्यानां भृङ्गाणां
पक्षिणां चतुष्पदानामुपकृतं तेन वृक्षाङ्गमयवस्तुनः शुभस्थानादिप्राप्तिः । मृन्मये
बस्तुम्येते भावाः समारोप्याः । यत्पूर्वं कुद्दालघातपादप्रहारयन्त्रबन्धप्रवेशचक्रा-
रोहणचक्र भ्रमणपाषाणपिण्डि का काष्ठहस्त करघातरवितापशोषवह्निप्रवेशपरीक्षार्थं
शिरःप्रहारादिभिः कष्टमनुभूतं यत् जनबुभुक्षा तृष्णाहारान जलाधारतया लोको-
पकारः कृतस्तैः सुकृतर्मुन्मयवस्तुनो भव्याधारादिकमारोप्यम् । धातुमये वस्तुन्येते
भावा भावनीयाः । यत्पूर्वं वह्निप्रवेशहस्तपुटघात सन्दंश ग्रहणयन्त्रान्तराकर्षण-
2
 
१. समर्थनीयाः इति पाठान्तरम् ।