This page has not been fully proofread.

काव्यकल्पलतावृत्ति
 
वैरिस्त्रीकुचाश्रयणं तस्याः कारणं पूर्वजक्नमस्ततो मस्पूर्वजः कृपाणो रिपुकुम्भि-
कुम्भेषु विललासेति कृपाणोद्भवं नृपयशोऽपि कुम्भि कुम्भसोदरेषु वैरिस्त्रीकुचेष्षु
पाण्डिमच्छलेन विललास ।
 
१७०
 
आरोग्य वर्ण्य
वस्तूनां क्रियासु संदेशोः क्रिया ।
 
तासां रोपितक्रियाणां कल्प्यमुत्पत्तिकारणम् ॥ ३ ॥
 
वर्ण्य वस्तूनां क्रियासु कम्पनादिषु नर्तनादिकाः, भ्रमरकूजनादिषु जपन-
स्तवनाक्रन्दाशीवंचनादिकाः, क्रिया आरोपयेत् । ततस्तासामारोपितक्रियाणां
नत्तंनादीनां हर्षादीनि, जपनादीनां श्रेयः प्राप्त्यादीनि, काराणानि कल्पनीयानि ।
 
इति श्रीजिनदत्त सुरिशिष्यपण्डित श्रीमदम रचन्द्रविरचितायां
काव्यकल्पलतायामर्थसिद्धिप्रताने चतुर्थे क्रियास्तबकचतुर्थः ॥ ४ ॥
 
अथ चतुर्थप्रताने पञ्चमः स्तबकः
 
अथाधारपरिवारादिभ्योऽर्थोत्पत्तियंथा-
बनगिरिजलभास्वद्वातशीताग्निलोह-
प्रहरणपरघट्टाभ्येतजन्तूपकारैः ।
 
सरिदधिगम मौनध्यान नैश्चल्य मन्त्रा-
नशनमखिलभोगायाचितक्षान्तिसप्तैः ॥ १ ॥
 
वण्यंवस्तुना निर्जितस्य सदृशस्य वस्तुनो वनादिभिरमीभिर्भावैरथः
समर्थनीयः । यथा – स्त्रीनेत्रजिता मृगा वनं गताः । मध्यजितः सिंहो गिरि-
गह्वरे प्रविष्ट: । मुखजितं कमलं जलदुर्गमगात् । स्थैयंजिता गिरयो भास्वत्ताप-
बातशी ताग्निमुखदुःखानि सहन्ते । भ्रमरः सट्टं तितिक्षते । अभ्येतहंसादीनां
घाणेरखण्डैरप्युपकारं कुरुते । गतिजिता हंसाः शरदधिगमं कुते । दम्भजितो