This page has not been fully proofread.

चतुर्थप्रताने चतुर्थः स्तबकः
 
१६६..
 
नखास्तेषु तुल्यत्वादारोपितास्तारास्तासां पादलग्नं क्रिया तस्याः कारणं नारी-
प्रसादनेष्टप्राप्तिः । ततस्तव मुखस्पर्धापातकेनास्मत्पतिः कलङ्कितः क्षयी
नाद्यप्रभृति स्पर्धेत इति नार्या: प्रसादनं कर्तुमिव नखमिषेण चन्द्रदारास्तासं
पादयोर्लंग्नाः। वर्ण्यश्चन्द्रस्तत्तुल्यत्वादारोपितं यशस्तस्य त्रिभुवने भ्रमणं क्रिया
तस्याः स्वसमाननिरीक्षणं कारणं ततो मत्समानः कोऽप्यस्ति न वेति निरोक्षितु-
मिव पीयूषद्युतिच्छ्लेन नृपयशो भुवनत्रयं भ्रमति ।
 
वर्ष्या वेणी तस्यां तुल्यत्वादारोपितः सर्पस्तस्य नार्या अनुसरणं क्रिया
ततस्तद्वचनस्य सुधया सह मैत्रोमिव कारयितुं सुधाध्यक्षः सर्पो वेणीमिषेण
नार्या अनुचरत्वं करोति । अथवा तस्याः कटाक्षवक्रत्वमिव शिक्षयितुं
वेणीमिषेण सर्पो नार्या अनुचरत्वं गतः । वर्ण्या दशनद्युतिस्तस्यामारोपिता
सुधा तस्या रामाश्रयणं क्रिया ततो वचनमाधुर्यमिव शिक्षितुं दशनद्युतिमिषेणा-
श्रयणं करोति ।
 
रिपूच्छित्तियथा-
वर्ण्य ऐरावणस्तत्रारोपितं यशस्तस्य स्वर्गगङ्गाश्रयणं क्रिया तस्या
रिपूच्छित्तिः कारणं ततः स्वस्पर्धिनीं स्वर्गङ्गामिव गाहितुमैरावणच्छलेन
नृपयशः स्वर्गङ्गां गतम् । वर्ण्यो कुची तयोरारोपितौ चक्रौ तयोः कान्तश्रयणं
क्रिया तस्याः कारणं रिपूच्छित्तिः । ततो निजवैरिणश्चन्द्रस्य तन्मुखपाश्वत्
पराभवं कारयितुं कुचच्छलेन चक्रौ नारीमाश्रितो ।
 
अथ स्पर्धा -
 
वर्ण्या
 
हारमुक्तास्तास्वारोपितास्तारास्तासां नारीसमाश्रयणं क्रिया तस्याः
कारणं स्पर्धा ततोऽस्मत्सहोदयेन तमसा वेणोमिषादियमाश्रितेति स्पर्धयेव हार-
मुक्ताच्छलेन ताराभिः स्त्री समाश्रिता । वर्ण्या शिवशिरः सरित् तस्यामारोपिता
कीर्तिस्तस्याः शिवाश्रयणं क्रिया तस्याः कारणं स्पर्धा ततः कण्ठरुचिच्छलेन
भवद्रिपुकोत्तिः शिवमाश्रितेति स्पर्धयेव तव कीर्तिरपि शिरोगङ्गाच्छलेन
शिवं श्रिताः ।
 
अथ पूर्वजक्रमो यथा । वर्ण्यो वैरिस्त्रीविरहानलस्तत्रारोपितो नृपप्रताप-
स्तस्य वैरिस्त्रीहृदय प्रवेशः क्रिया तस्याः कारणं पूर्वजक्रमस्ततोऽस्मत्पूर्वजः कृपाणो
वैरिहृदयेषु प्रविष्ट इति कृपाणोद्भवो नृपप्रतापोऽपि विरहानलच्छलेन वैरिस्त्री
हृदयेषु प्रविष्टः । वर्ण्यो वैरिस्वोस्तनपाण्डिमा तथारोपितं नृपयशस्तस्य किया
कॉ०-२२-