This page has not been fully proofread.

१६८
 
काव्यकल्पलतावृत्तिः
 
पम्यप्राप्त्यै जलान्तराकण्ठमग्नं तपः कुरुते । वर्ण्यश्चन्द्रस्तस्य शिवशिरःसुर-
सरित्तोरे निवासः क्रिया तस्याः कारणं कामिनीमुखौपम्येष्टप्राप्तिस्ततः सुमुखी-
मुखौपम्यप्राप्त्यै स्थाणोः शिरसि स्थायी सुरसरित्तोरे तपस्वी तपःक्षामो
निवसति चन्द्रः ।
 
वण्यं यशस्तस्य स्वर्गगमनं क्रिया तस्याः कारणं निजमित्रैरावतादि-
मिलनेष्टप्राप्तिस्ततो निजमित्रैसवतोच्चैःश्रवोब्रह्महंस शिवशिरोगङ्गाविष्णुपाच-
जन्यादीनां मिलनायेव नृपयशः स्वर्गं जगाम । रिपूच्छित्तिर्यथा । वर्ण्यो वप्रस्तस्य
नभोगमनं क्रिया तस्याः कारणं स्वस्पर्धिमेरुनगाश्रितरविरिपूच्छित्तिस्ततः स्वस्पधि-
मेरोराश्रयणशीलं रविमिव भूमी पातयितुं वप्रो नभोगमनं करोति । वर्ण्या
हंसास्तेषां सरः श्रयणं क्रिया ततो निजगतिस्पर्धिनारीवदनमित्राणि कमलानीव .
च्छेत्तुं सरः श्रयन्ति हंसाः । वर्ण्यो रविस्तस्योदयः क्रिया ततो निजसारथिभ्रातृ-
गरुडरिपुसपंसोदराणीव तमांसि च्छेतुं रविरुदयं करोति ।
 
अथ स्पर्धा । वर्ण्यो वप्रस्तस्य नभोगमनं क्रिया तस्याः कारणं स्पर्धा ततो
विन्ध्यगिरिस्पधंया तरणिसरणिरोधं कर्तुमना इव वप्रो व्याप्नोति । वर्ण्य
यशस्तस्य दिग्व्यापनं क्रिया तस्याः कारणं स्पर्धा ततो निजप्रभावस्पर्धिसुधा-
दीधितिस्पर्धयेव नृपयशो दिक्चक्रमाक्रामति ।
 
अथ पूर्वजक्रमः । वर्ण्यो वप्रस्तस्य पूर्वजो गिरिस्ततो निजपूर्वजगिरिक्रमेणब
वप्रोऽपि नभो रुरोध । वर्ष्या नारीमुखपत्रवल्लीकस्तूरिका तस्याः पूर्वजो मृगस्त-
तोऽस्मत्पूर्वजमृगश्चन्द्रं श्रित इति पूर्वजक्रमान्मृगनाभिरपि चन्द्रसोदरं सुमुखीमुखं
श्रिता । एवं वस्तुषु क्रियामारोप्येष्टप्राप्त्यादिकारणानि योजनीयानि । क्रिया-
भ्योऽर्थान्तरोत्पत्तये प्रकारान्तरमाह-
बर्थ्योऽपह्न तिवाचकशब्दै रारोपितेषु तुल्येषु ।
 
रचितोचितक्रियाणामिष्टप्राप्त्याविकारणं कल्प्पम् ॥ २ ॥
 
वण्र्ण्य वस्तुष्वपह्नुतिवाचकैः शब्देश्छलार्थेराकृत्यर्थ देहार्थमुख्यैः शब्दैः रूपको
त्प्रेक्षाभ्यां वर्ण्याकारक्रियादिभिः सदृशानि वस्तूनि यथोचित्यं क्रियाः कल्पयेत् ।
इतः प्रकल्पितक्रियामिष्टप्राप्त्यादीनि कारणानि योजयेत् । यथा वर्ण्या नारी-