This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
अतः परं काव्यकल्पलतावृत्तेः वैशिष्ट्यं कतिभिः शब्दैः प्रतिपाद्यते । स्वयं
मङ्गलश्लोकैरगर्हिताभी॒ष्टसिद्धिरूपं समुचितवाग्देवतानमस्कारात्मकं मङ्गलं साधिकारि-
विषयसम्बन्धप्रयोजनरूपानुबन्धचतुष्टयं शिष्यशिक्षायै ग्रन्थस्य समग्रस्य निर्विघ्नपरि
समाप्त्यर्थं शिष्टाचारानुमतं ग्रन्थतो निबध्नन् ग्रन्थविषये ब्रवीति-
विमृष्य वाङ्मयं ज्योतिरमरेण यतीन्दुना ।
काव्यकल्पलताख्येयं कविशिक्षा प्रतन्यते ॥
सारस्वतामृतमहार्णवपूर्णिमेन्दोः
 
मत्वाऽरिसिंहसुकवेः कवितारहस्यम् ।
किञ्चिच्च तद्रचितमात्मकृतं च किञ्चिद्
 
व्याख्यायते त्वरितकाव्यकृते च सूत्रम् ॥
वाचं नत्वा महानन्दकरसत्काव्यसम्पदे ।
कविशिक्षामिमां वच्मि काव्यकल्पलताह्वयम्' ॥
 
१४
 
एभिर्मङ्गलश्लोकैः सहृदयः कविरधिकारी सत्काव्यप्रवृद्धिकृत्कविशिक्षा विषयः
प्रतिपाद्यप्रतिपादकभावसम्बन्धः, सत्काव्यसमृद्धिः कवित्वाविर्भावो वा प्रयोजनम् । अनेन
प्रकारेण ग्रन्थप्रवृत्तिप्रयोजकज्ञानविषयत्वरूपोऽनुबन्धः स्पष्टीकृतः । सत्काव्ये सत्त्वम-
दोषत्वगुणवत्त्वं क्वचित् सालङ्कारत्वादि । आनन्दः सुखम्, तत्र महत्त्वं निरतिशयत्वम्,
तच्च विगलितवेद्यान्तरसम्पर्कशून्यत्वम् । एवञ्च ब्रह्मानन्दसहोदरो रसः, 'रसो वै स: '२
इति श्रुतेः ।
 
अस्य ग्रन्थस्य प्रयोजनं कविशिक्षया सत्काव्यसमृद्धिः । सम्यक् प्रशिक्षिता
कवयः लोकोत्तरवर्णनानैपुण्यं समधिगमिष्यन्ति, अन्यथा तेषु उपहासास्पदत्वस्यापि
सम्भावना असत्काव्यकृतेरपीति तच्छिक्षानिवार्या ।
 
ननु प्रकृत्यैव देवतादिप्रसादात् कवित्वस्फूर्तिर्भविष्यतीति कृतं शिक्षयेति चेत्,
न, काव्यज्ञशिक्षाया असकृदावृत्तिरूपाभ्यासस्यापि कवित्वस्फुरणे हेतुत्वाङ्गीकारात् ।
सत्यपि स्वभावतो न्यग्रोधपानासु सान्द्रशाद्वलदलबलितशाखाकारा निपीतमार्तण्डचण्डा-
तपमण्डलान्यन्यग्रोधोद्भवसामर्थ्ये न खलु क्षितिसलिलतेजःसम्पर्कसहकारिकारणं विना
तदङ्कुरोद्भव: । अत: कवित्वबीजसहकारित्वसम्पादनाय काव्यशिक्षा तदभ्यासश्च अवश्या-
पेक्षः । अतः सर्वथैव सर्वदैव चास्य ग्रन्थस्य कालातिरोहिता सत्काव्यसम्पत्तिसम्पादनायो-
पयोगिता अनुपेक्षणीया । श्रुत्वा मत्वा ध्यात्वा चासकृद् ग्रन्थमेनं ध्रुवं प्रभवेद् असहृद-
यस्यापि कवित्वारं किं पुनः सहृदयानाम् । तस्मात् मन्दमध्यमोत्तमैः सर्वैर्नवीनैरपि
कविभिः श्रोतव्यो मन्तव्यो ध्यातव्यश्चायं प्रबन्ध इति मे मतिः ।
 
२. तैत्ति०, २.६ ।
 
१. का० वृ० १.१.१-३ ।