This page has not been fully proofread.

1
 
काव्यकल्पलतावृत्ति
 
पश्चिमाचलशिखरात् प्रदत्तझम्पावशेन तोयनिघेरुच्छलिता नभसि जलबिन्दव
इव ताराः ।
 
सूक्ष्मरक्तानि वृत्तानि नखरत्नेभबिन्दवः ।
 
गुञ्जेन्द्रगोषखद्योताः स्फुलिङ्गक्रुद्धलोचने ॥ २५ ॥
पूगशोणाश्मबन्धूकबदरीवटयोः फले ।
 
एतेऽन्येऽपीत्यादि । यथा वर्ण्या मणयस्तेषामुपमानं रत्नानि ततो जल-
धरैजलधे: पीतस्फुलिङ्गा इव मणयः । वर्ण्या इन्द्रगोपास्तेषामुपमानं रत्नानि
ततो जलधरैर्जलधेः पीतसरलजलैर्जलैः समं वृष्टै रत्नैरिव इन्द्रगोपैर्भूर्व्याप्ता ।
वर्ण्याः खद्योतास्तेषामुपमानं वह्निस्फुलिङ्गास्ततो घनघटासङ्घदृशतखण्डित-
विद्युदग्ने: खण्डलवा इव खद्योताः । वर्ण्यानि बन्धुजीवानि तेषामुपमानं
शोणरत्नानि ततो वनलक्ष्म्याः शरत्कालेन क्लृप्तानि माणिक्याभरणानीब
बन्धुजीवकुसुमानि ।
 
सूक्ष्मश्यामानि वृत्तानि जम्बूभृङ्गकनोनिकाः ॥ २६ ॥
 
चूचुका: साञ्जनाश्चेन्द्रनोलौ गुञ्जाऽतसीसुमे ।
 
एतेऽन्येऽपीत्यादि । यथा - वर्ष्यानि जम्बूफलानि तेषामुपमानं साञ्जनाश्रु-
बिन्दवः । ते दुःखात् स्त्रियो भवन्ति ततः परवल्ली: स्पृशन्तं मारुतकामुकं
दृष्ट्वा जम्बूलतया साञ्जनाश्रूणीव मुक्तानि जम्बूफलानि । वर्ण्या भ्रमरी तस्या
उपमानं कनीनिका सा हि नेत्रे भवति, ततो वसन्तनायकं पश्यन्त्या माधवी-
लतया विस्मेरकुसुमनेत्रान्तमरी कनीनिकेव निश्चला । वर्ण्यो चूचुको तयोरुप-
मानं भृङ्गो तावपि कमलाश्रयो भवतः । ततो रतिप्रीतिक्रीडाकमलयोः कुचयोः
कृतास्पदी भृङ्गाविव चूचुकी ।
 
त्रिकोणान्यथ दम्भोलिशूलेशानदृशौ हलम् ॥ २७ ॥
 
सन्ध्यक्षराद्यशृङ्गाटी कामाक्षीवह्निमण्डले ।
करपत्रनिरभावितलश्रोणिस्थपाणयः ॥ २८ ॥
क्षुरप्रश्शृङ्गगोक्षुररोहिणोशकटानि च ।