This page has not been fully proofread.

चतुर्थप्रताने तृतोयः स्तंबंका
 
गर्भप्रकाशवृत्तानि घटोमुकुटकण्टिकाः ।
ताडपत्रककटकामदाः कङ्कणभूमिका ॥ १८ ॥
 
हस्तसूत्रं नूपुरे दूप्रक्षारक्षार्थकण्डके ।
पुष्पस्रङ्मेखला हारो रुण्डमालाकपर्दको ॥ १९ ॥
कट्या: सूत्रगुणो मौज्जोजपघर्घरमालिके ।
परिवेषः कुण्डलना प्राकारपरिखावृतिः ॥ २० ॥
कर्णपाशो बाहुपाशो पालिबाह्यालिवागुराः ।
घटकण्ठः कृष्टचापं चषालव्योममण्डले ॥ २१ ॥
विव्यार्थमण्डलश्रोणी कुण्डलोभूतकुण्डली ।
पर्यस्तिका योगपट्टवल्गोपवीतरइमयः ॥ २२ ॥
 
१६३
 
एतेऽन्येऽपोत्यादि । यथा - वर्ण्यो वप्रस्तस्योपमानं कपर्दस्तस्याधारः
शिवस्ततो भुवः शिवमूर्ते: कृपिशीर्षमुण्डमालान्वितः कपर्द इव वप्रः । वर्ण्यो
वप्रस्तस्योपमानं वलयं तस्याधारो राहुस्ततो वसुधावध्वा अन्तरोल्लसितनृपसौध-
बाहुभासितं वलयमिव वप्रः । वय कर्णपाशौ तयोरुपमानं व्याकृष्टचापे ततो
मदनयौवनाभ्यां जननयनमनोमृगवेधाय सन्निहितकटाक्षबाणे कर्णद्वयमिषेण धनुषी
इव कुण्डलिते ।
 
सूक्ष्मश्वेतानि वृत्तानि मुक्तामलकतारकाः ।
वाडिमोफलबोजानि दन्तबिन्दुवराटकाः ॥ २३ ॥
करटाक्षिपयोबिन्दुबुबुदस्वेव बिन्दवः ।
 
प्रसूनं पिटकं पीलुफलं जातोफलं कणाः ॥ २४ ॥
 
एतेऽन्येऽपोत्यादि । यथा-वस्तारास्तासामुपमानं मुक्तास्ता हि समुद्रे
शुक्तितः सम्भवन्ति । ततो ज्योत्स्नाम्भः सम्भृतनभोऽम्भोघौ लाञ्छनच्छलस्फुटित-
मुखचन्द्रशुक्तिकुहरनिःसृता मुक्ता इव ताराः । अथवा ताराणामुपमानं जल-
बिन्दवः । ते हि जलाशयादिषु सम्भवन्ति । ततोऽनवरत भ्रान्तिश्रान्तस्य रवेः