This page has not been fully proofread.

1
 
I
 
१६२
 
काव्यकल्पलतावृत्तिः
 
गर्तापिधानं घरी कुम्पिका लोकनालयः ।
तिलेक्षुपेषुकृद्यन्त्रे पालकं धूतगतिका ॥ १३ ॥
 
एतेऽन्येऽपीत्यादि ।
 
वर्ष्या नाभिः तस्या उपमानं कूपस्ततस्तनारघट्टोपरि लुलितरोमालि-
मालालावण्यजलपूर्णः शृङ्गारवनसेचनाय मदनारामिकेण नाभी रूप: कूप इव
प्रगुणीकृतः ।
 
वनि पद्मानि तेषामुपभानं चषकानि ततो जलदेवतानां मधुपूर्णानि
चषकानीव पद्मानि ।
 
पिण्डिताकृतिवृत्तानि गोलस्तबककन्दुकाः ।
कन्वेभकुम्भधम्मिल्लनितम्बस्तनमौलयः ॥ १४ ॥
दृष्यं घष्टिका मुष्टयं सकरोटिककुदण्डकाः ।
राहू क्षणपिण्डोधःकपिशीर्षघटाः फलम् ॥ १५ ॥
गुल्मं फालं वयःसाररथामा हंसजाहकौ ।
मोदकः कलशस्तुम्बकमण्डलुसमुद्गकाः ॥ १६ ॥ ….
नारचूत करुणबिल्ब जम्बीरदाडिमाः ।
बीजपूरीनारिकेल्यावित्यादिद्रुमफलावलिः ॥ १७ ॥
 
एतेऽन्येपीत्वादि ।
 
वर्ण्यो स्तनौ तयोरुपमानं कुम्भौ ततः शृङ्गाररसपूर्णौ तटस्थनिष्पन्द-
लेखाकृतिरोमावलिरम्यौ मुखस्थित चू चुकच्छलेनेन्द्रनीलपिधानौ नार्याः कुम्भाविव
कुचौ । वर्ण्यो वप्रस्तस्योपमानं वलयं तस्याधारो बाहुस्ततो वसुधावध्वा
अन्तरोल्लसितनृपसोधबाहुभासितं वलयमिव बप्र: । नार्या शृङ्गारवल्लेश्चूचुक-
च्छलनिलोनभृङ्गी कुसुमस्तबकाविव कुचौ । रतिप्रीतिभ्यां कामदेवस्य त्रिभुवन-
राज्याभिषेकाय चूचुकच्छल मुखस्थिताश्वत्थपल्लवौ कनककुम्भाविव कुचौ ।
वर्ण्यश्चन्द्रस्तस्योपमानं हंसस्ततो नभःकासारे ज्योत्स्ना जलसम्भृते लाच्छन-
चलेन कलितशैवलवल्लरीपल्लवो हंस इव चन्द्रः ।