This page has not been fully proofread.

चतुर्थप्रताने तृतीयः स्तबका
सम्पूर्णगर्भवृत्तानि मुखपदुदर्पणः ॥ ४ ॥
कपोलकुण्डले तालसूर्य भाजनगाब्दिकाः ।
झल्लरी कमठं पुण्डूं लतागृहबलस्फुराः ॥ ५ ॥
छत्रव्यजनचालिन्यो मृदपुटपूपकाः ।
घरट्टमण्डकौ कम्दुरालवाल: सरो मही ॥ ६ ॥
द्वीपः शराव: कंसालकरिश्रवणकौशिकाः ।
कुलालरथकृष्णानां चक्राणि शाणयन्त्रकम् ॥ ७ ॥
तुलावेलाजकंवर्तजालावर्तारघट्टकाः ।
 
एतेऽन्येऽपोत्यादि । वर्ण्य : सूर्यस्तस्योपमानमादर्शः स स्त्रीपार्श्वे भवति
ततः पूर्वादिङ्नार्या आदर्श इव प्राभातिको रबिः । अथ वा रवेरुपमानं पुण्ड्रः
सोऽपि स्त्रीमुखे भवति ततः पूर्वंदिगङ्गनामुखे पद्मरागपुण्ड्रमिव रविः । वयंश्चन्द्र-
स्तस्योपमानं छत्रं तदपि राज्ञो भवति । ततो मदनभूपतेश्छत्रमिव चन्द्रः ।
अथ वा चन्द्रस्योपमानं स्फुरा सापि सुभटस्य भवति ततो मदनसुभटस्य स्फुरा-
मण्डलमिव चन्द्रः ।
 
गम्भीरमध्यवृत्तानि नाभिस्थालीगुहानबाः ॥ ८॥
 
कुण्डं वापो श्रुतिः कूपो मुखं गर्भकचोलके ।
कमण्डलुघटग्रोवाचक्रनाभिरुलूखलः ॥ ९ ॥
कटाहमणिकौ कुण्डो कम्बुः कुतपपङ्कजे ।
चषकं कुम्भभृङ्गारी श्रोभाजनाप्यमण्डले ॥ १० ॥
हारका सेनिका पल्लो करण्डो धूपवर्तकः ।
कपालखर्परे तुम्बसमुद्गकरकाः वृतिः ॥ ११ ॥
घण्टाशिरस्कषत्तूरसुमनो भेरिकाहलाः ।
नालप्रणालनलिकाः शरधिर्धमनी घड़ी ॥ १२ ॥
 
का० – २१