This page has not been fully proofread.

अथ चतुर्थप्रताने तृतीयस्तबकः
अथ आकारेभ्यस्तत्रापि चतुरस्राकारादर्थोत्पत्तये
सङ्ग्रहः, यथा-
चतुरस्राकारपदार्थ-
चतुरस्राणि व्यजनं कुम्भिका च पताकिका ।
 
क्रियन्ते ।
 
चतुरी मश्चिका सिंहासनं पार्थिवमण्डलम् ॥ १ ॥
एतेऽन्येऽपि चतुरस्रपादार्थाः परस्परमौचित्या दुपमानं
उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यते । यथा – वर्ण्यं पार्थिव-
मण्डलं तस्योपमानं सिंहासनं तस्याधेयं राजा ततः सर्वकार्यकरणक्षमस्य
मन्त्राधिराजस्य सिंहासनमिव पार्थिवमण्डलम् । प्रलम्बचतुरस्र पदार्थसङ्ग्रहः,
 
यथा-
प्रलम्बचतुरस्त्राणि खट्वा स्थण्डिलतूलिका ।
'कपाटपट्टिकापेटापट्टाः प्रालकपुस्तके ॥ २ ॥
 
इष्टका तिलकं केतुः पटः पाणिः प्रसारितः ।
प्रशस्तिपट्टिका शय्या पटुः शकटमञ्चकौ ॥ ३ ॥
गवाक्षसारफलकं कटद्वारपटादयः ।
 
एतेऽन्येऽपि इत्यादि । वयं पुस्तकं तस्योपमानं मञ्जूषा साऽपि रत्नस्थान
ततो घृतकाव्यरत्ना मञ्जूषेव पुस्तिका । वयं तिलकं तस्योपमानं तूलिका
ततो मदननृपतेर्बालाशरीरसौधोपरि क्रीडायै चतुरस्रमुक्तातिलकच्छलेन विशद-
प्रभाच्छलोत्तरच्छदा तूलिकेव प्रगुणीकृता । वर्ण्या तूलिका तस्या उपमानं चतुरस्र -
तिलकं ततो गृहलक्ष्म्याश्चान्दनं तिलकमिव तूलिका । वण्यं ललाटफलकं
तस्योपमानं प्रशस्तिपट्टिका ततः कन्दर्पदेवतायतने बालाशरीरे कस्तूरिकापत्र-
वल्लीमिषाऽक्षरमालिका प्रशस्तिपट्टिकेव ललाटफलकम् ।
 
वृत्तपदार्थसङ्ग्रहः, यथा-