This page has not been fully proofread.

चतुषंत्रताने प्रथमः स्तबकः
सुररिपुपदनियंज्जाह्नवीनीरपूर-
स्नपितग रुडपक्षप्रख्यसंलक्ष्यलक्ष्मीः ।
तरुण किरणमालिस्फूर्जदंशुप्ररोहः
 
स्मितकन कसरोजव्यूहतुल्याङ्गकान्तिः ॥ १५ ॥
जलधरनिकुरम्बोद्दामधारानिपात-
स्नपित
कनकशैलस्पद्धिरोचिष्णुकान्तिः ।
तरुणतरमृगाक्षीगण्डरोचिः प्रपश्च-
च्छुरित कनककर्णोत्तंससद्वर्ण्यवर्णः ॥ १६ ॥
 
इति पीतवर्णः । इत्यादि ।
 
सदृशं सदृशेनोपमेयम्, यथा-
अमरनिकरयावाविस्फुरत्कामधेनु-
स्तनगलितपयोवद्भारती यस्य रेजे ।
 
हिमकिरणमयूखप्रान्तभिन्नेन्दुकान्त-
प्रसरदमृततुल्या यस्य वाचो विभान्ति ॥ १७ ॥
 
दनुतनुजविपक्षक्षुब्धदुग्धाब्धिगर्भो-
ल्लसदमृतसमाना रेजिरे यस्य वाचः ।
 
एवमन्यदपि ॥
 
मदनमथनचूडाचन्द्ररोचिष्णुगङ्गा-
लहरिभरसमाना शोभते यस्य वाणी ॥ १८ ॥
 
इति श्रीजिनदत्त सूरिशिष्यपण्डित श्रीमदमरचन्द्रविरचितामां
काव्यकल्पलतावृतो अर्थसिद्धिप्रताने चतुर्थे
अलङ्काराभ्यासस्तबको द्वितीयः ॥ २ ॥