This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
उपमेयस्य शोभातिशयख्यापनाय कयाऽपि युक्त्या विशेषणैरलङ्कृत-
मुपमानं कुर्वीत । यथा -
 
१५६
 
इति श्वेतवर्णः ।
 
इति कृष्णः ।
 
इति रक्तः ।
 
सुरनिकरकराग्रव्यग्रमन्थानशैल-
क्षुमिततरल दुग्धाम्भोधिकल्लोलकान्तिः ।
हिमकिरणमरीचिव्यूहविभ्राजमान-
क्षितिधरपतिचूडाजाह्नवीकल्पकान्तिः ॥६॥
 
तुहिनगिरितनूजान प्रभूतेशचूडा-
गलितगगनगङ्गाधौतबालेन्दुगौरः ।
 
गिरिशमुकुट चन्द्रज्योतिरुद्योतमान-
स्फटिकशिखरचूडास्पर्ध मानाङ्गकान्तिः ॥ १० ॥
 
मुकुटगलितगङ्गानोरकल्लोलमाला-
स्नपितगिरिशकण्ठस्पष्ट रुग्देहयष्टिः ।
 
अभिनवजलवाहव्यूहधाराविशुद्धा-
ञ्जनशिखरिगरोयः शृङ्गचङ्गाङ्गलक्ष्मीः ॥ ११ ॥
 
दिनपरिवृढपुत्रीगर्भनीलारविन्द-
प्रसृमरमधुपालीपक्षतिप्रख्यकान्तिः ।
 
जलशयनशरीरस्फाररोचिः प्रपश्व-
च्छुरितसलिल राशि भ्राजमानाङ्गयष्टिः ॥ १२ ॥
 
मसृणघुसृणपङ्काभ्यङ्गच चच्चलाक्षी-
कुच कलशपिधानोद्दाम कौसुम्भकान्तिः ।
तरुणतरणिकान्तिप्रान्तसंसर्ग रङ्गत्-
कमलदलकदम्बप्रायकायप्रभोमिः ॥ १३ ॥
 
अभिनवरविरश्मियोतितप्राच्यभूभृ-
च्छिखरलसदशोकस्मेरपुष्पोपमानः ।
 
पतिकुपितमृगाक्षीलोचनप्रान्तरोचि-
छुरित कमलकर्णोत्तंससङ्काशकान्तिः ॥ १४ ॥