This page has not been fully proofread.

1
 
चतुर्थप्रतानै द्वितोयः स्तंबंका
 
सुराद्रिः काञ्चनं कांस्यं रीतिः किन्जल्कवल्कले ।
परिव्राजकवस्त्राणि हरितालमनः शिले ॥ ३२ ॥
हरिद्रा रोचना हीरों गम्बकं बोपचम्पके ।
कर्णिकार सुवर्णाब्जरम्भाकेतकशालयः ॥ ३३ ॥
हरयो रथाङ्गनामा वानरः सारिकाक्रमौ ।
 
एतेऽन्येऽपि पोतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानी-
कृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा वर्ण्यो रविस्तस्योपमानं
कोकस्तस्याधारः सरस्ततो नभः सरोवरे रविश्चक्रवाक इव । वर्ण्याः कोकास्तेषा-
मुपमानं परागस्ततः सरसि स्मेरसरसिज परागस्तबका इव चक्रवाकाः ।
वर्ण्यः परागस्तस्योपमानं ककुमाम्भस्तदाधारी नारोशरोरं ततः काननलक्ष्म्या
वसन्तप्रियागमे परागप्रसरपरिष्वङ्गमिषेण कुङ्कुमलेप इव चक्रे । बर्ण्यो रविस्तस्यो-
पमानं गरुडस्तस्य क्रिया सर्पवधस्ततस्तिमिरसर्पाणां गरुड इव रविः ।
 
अथ धूसरादिभ्योऽर्थोत्पत्तये धूसरादिपदार्थसङ्ग्रहो यथा-
धूसरा रेणुमण्डूककरभा गृहगोषिका ॥ ३४ ॥
गर्दभो मूषका दुर्गाकाककण्ठकपोतकाः ।
 
पुलकोऽहिः शिखिपिच्छाऽधोभागः करुणो रसः ॥ ३५ ॥
कपाललेइयोर्णनाभशकुनाः कर्बरी तथा ।.
 
वर्ण्या मण्डूकास्तेषामुपमानं करुणो रसस्तस्याधासे दुःखिनस्ततो वर्षा -
काले चलमण्डूकावलिच्छलेन विरहार्तानां हृदयेभ्य उद्भ्रान्तः करुणो रस इव ।
बहुवर्णाः शिखिपिच्छेन्द्र चापथोबचित्रकाः ॥ ३६ ॥
 
ततस्तस्याधारो गोपवर्णस्ततः
वर्ण्य धनुस्तस्योपमानं शिखिपिच्छं
कृष्णमेघस्य गोपालानां प्रपन्नस्य शिखिपिच्छाभरणमिव इन्द्रधनुः ।
 
उत्कर्षमुपमेयस्य परिकल्पयितुं सुधीः ।
 
विशेषणे: परिष्कारमुपमानस्य कल्पयेत् ॥ ३७ ॥