This page has not been fully proofread.

१५६
 
काव्यकल्पलतावृत्तिः
 
कुसुम्भकशुकाशोकजपाबन्धूकपाटलाः ।
 
पल्लवा दाडिमीपुष्पं बिम्बीकिम्पाकयोः फले ॥ ६ ॥
गुञ्जा कोकनदं रौद्ररसो रागघटेष्टिका: ।
ताम्बूल रागो मञ्जिष्ठा वज्रक्षतनखक्षते ॥ ७॥
तेजोलेश्याः पद्मलेश्याः क्रोधः क्रुद्धवपुर्मंदः ।
वश्याकर्षणयोर्ध्यानं सपाकफलमण्डली ॥८॥
 
:
 

 
एतेऽन्येऽपि रक्तपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते । उपमानी-
कृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - वर्ण्याः किशुकास्तेषा-
मुपमानं कौसुम्भवासांसि ततो वसन्तप्रियसमागमे वनस्थनिरन्तरस्मेरित किशुक-
कुसुम श्रेणिमिषेण करैः कौसुम्भवासांसि परिहितानि । वर्ण्या कङ्कलिस्तस्य
उपमानमनुरागस्ततो वसन्तानुरक्तया वनलक्ष्म्या कङ्कलिच्छलेन मूर्तोऽनुराग
इव प्रकटीचक्रे । अथवा वनश्रियो मुखमण्डनं कुङ्कुमस्तबक इव कङ्केलिः ।
 
वर्ण्या सन्ध्या तस्या उपमानं वह्निस्ततः प्राणनाथेऽस्तङ्गते रवी
दिग्वधूभियनुरागमयीभिः सन्ध्याच्छ्लेन प्रगुणीकृतो वह्निरिव । अथवा चक्रवाक-
हृदयेभ्यो विरहाग्निज्वालाकलाप इव सन्ध्याच्छ्लेन नभोऽभिव्यापी बभूव ।
वर्ष्या जपा तस्या उपमानं रत्नानि ततः शरत्कालनवलक्ष्म्या जपाकुसुमच्छलेन
रत्नानीव प्रदत्तानि । वर्ण्यो बालार्कस्तस्योपमानं कुक्कुटशिखा ततः प्रातः
किरणावृतमूर्तिननावर्णवनपक्षतेरुदयगिरिकुक्कुटस्य शिरःस्थितो रविः
शिखाशोभां लभते ।
 
पिङ्गलवर्णादर्थोत्पत्तये पिङ्गलवर्णपदार्थ सङ्ग्रहो यथा-
पोतानि ब्रह्मसुर्येन्द्र गरुडेश्वरबुग्जटाः ॥ २९ ॥
पद्मनाभो गुरुविष्णोश्चक्रं बोररजोगुणाः ।
गिरिजाऽगस्तिरिन्द्रादया द्वापरो द्वापराच्युतः ॥ ३० ॥
भयानकरसो वैश्यवर्णधर्मं
पितृव्रताः ।
 
ऋषभप्रमुखास्तीर्थंकराः षोडशवासराः ॥ ३१ ॥