2023-04-09 14:29:20 by ambuda-bot
This page has not been fully proofread.
भावभूमिः
१३
स्तबका: सन्ति । एतेषां प्रतानानां विषयाः क्रमशो निम्नप्रकारेण वर्णिताः सन्ति-
१. छन्दसिद्धिः, २. शब्दसिद्धिः, ३. श्लेषसिद्धिः, ४. अर्थसिद्धिश्च । काव्यरचनायै
ग्रन्थोऽयमतीवोपयोगी वर्त्तते ।
जानन्त्येव विद्वांसो यदतिप्राचीनकाले साहित्यशास्त्रमिदं क्रियाकल्पनाम्ना
व्यह्रियते स्म । वात्स्यायनेन कामसूत्रे चतुष्षष्टिकलासु क्रियाकल्पस्य गणना कृता ।
'ललितविस्तर'नाम्नि बौद्धग्रन्थे कलानां गणनाप्रसङ्गे क्रियाकल्पस्यापि गणनास्ति ।
अस्यैव जयमङ्गलाटीकायाम्-'क्रियाकल्प इति काव्यकरणविधिः काव्यालङ्कार इत्यर्थ:'
लिखितमस्ति । आचार्यदण्डिनाऽपि स्वकाव्यादर्शे 'वाचां विचित्रमार्गाणां निबबन्धुः
क्रियाविधिम्'' इत्युक्तः । क्रियाविधिशब्दे क्रियाशब्दस्य काव्यक्रियार्थे प्रयोगो महाकविना
कालिदासेनापि समर्थितोऽस्ति । तद्यथा- 'प्रथितयशसां भास-सौमिल्लककविपुत्रादीनां
प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियायां बहुमान: २ । अनेन ज्ञायते यत्
क्रिया-कल्पस्य तात्पर्यं काव्यरचनायाः प्रक्रिया एवास्ति । अत्र क्रियया काव्यग्रन्थाः,
कल्पेन च विधानमभिप्रेतम्, तदिदं क्रियाकल्पपदं काव्यनिर्माणशिक्षाप्रदायकं ग्रन्थपरं
पर्यवस्यति । यथालङ्कारशास्त्रप्रणेतारः अलङ्कारं जीवातुभूतं मत्वा स्वग्रन्थस्य नाम
अलङ्कारनाम्ना कृतवन्त:, तथैव समीक्ष्यग्रन्थस्य कर्त्रा श्रीमदमरचन्द्रयतिनापि स्वग्रन्थस्य
नाम क्रियाकल्पव्याख्यापरे ग्रन्थे लतात्वमारोप्य काव्यकल्पलता नामाकारि । तदुपरि
कृता वृत्तिः काव्यकल्पलतावृत्तिरिति समीचीनमेव प्रतिभाति । स्वयं ग्रन्थकारेणापि सुष्ठु
भणितम्-
नामान्याह-
चत्वारोऽत्र च्छन्दः शब्दश्लेषार्थसिद्धिनामानः ।
क्रमशस्तता प्रताना पञ्चचतुष्पञ्चसप्तभिः स्तबकैः ॥
.इत्येते लता विस्तीर्णा लताधर्मत्वात् प्रतानस्तबकारोपा । क्रमेण स्तबकानां
अनुष्टुप्छासनं छन्दोऽभ्यासः सामान्यशब्दकः ।
वादो वर्ण्यस्थितिः पूर्वप्रताने स्तबका मताः ॥
रूढयौगिकमिश्राख्या
यौगिकाह्वानमालिका ।
४
अनुप्रासो लाक्षणिको द्वितीये स्तबकाः स्मृताः ॥
श्लेषव्युत्पादनं सर्ववर्णनोद्दिष्टवर्णने
।
अद्भुतं चित्रमित्येते तृतीये स्तबकाः कृताः ॥
तुर्ये
पुनरलङ्काराभ्यासवर्ण्याकृतिक्रियाः
प्रकीर्णकाभिधः संख्यासमस्ये स्तबकाः स्थिताः
१. काव्या० - १.९ ।
३. का०वृ०१.१.७ ।
२. का० ग्र०, (मालविका० ) पृ० २३९ ।
४. का० वृ० १.१.५-८ ।
20