This page has not been fully proofread.

चतुर्थप्रताने द्वितीयः स्तंबकः
 
चन्द्रभ्रमाद्धम्मिल्लच्छलेन राहुरिव समागतः । वर्ण्या श्रोकण्ठकण्ठरुचिस्तस्या
उपमानं तमस्ततस्त्वं हे प्रभो सर्वेषामपि सामान्यप्रभुस्ततः किमस्मद्वैरिणं चन्द्रं
शिरसा धत्स इति विज्ञप्तयेऽन्धकारमिव कण्ठ रुचिच्छलादीश्वरमाश्रितम् । अथवा
कण्ठरुचि निजसुतललाटेन्दुमिलनाय जलधिरिव समागतः । अथवा कण्ठरुचि-
च्छलाद्गङ्गास्पर्धंयेव यमुना ईश्वरं समागता ।
 
नीलवर्णादर्थोत्पत्तये नीलपदार्थसङ्ग्रहो यथा-
-
 
नीलानि बुधकर्कोटौ मल्लिपाइवों जिनेश्वरौ ।
वोभत्सरसवायू च नोलको नीलवानरः ॥ २७ ॥
शूको नीलोत्पलं दुर्वा प्रियङ्गुबलशैवले ।
वंशाङ्कुरो मरकतेन्द्रनीलौ रविवाजिनः ॥ २८ ॥
काचो मुद्गस्तथा नोललेश्याबालतृणावयः ।
 
एतेऽन्येऽपि नीलपदार्था: परस्परमौचित्यादुपमानं क्रियन्ते । उपमानी-
कृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा - वर्ण्यः पार्श्वजिनस्तस्योप-
मानं नोलोत्पलं तस्याधारः सरस्तती यस्य मनः सरसि श्रीः पार्श्वे नीलोत्पलो
भवति तस्य लक्ष्मीर्न दूरे । वर्ण्या शुकावली तस्या उपमानमिन्द्रनीलमणिमाला
ततः शरदि, नभोलक्ष्म्या इन्द्रनोलमणिमालेव शुकावली ।
रक्तवर्णादर्थोत्पत्तये रक्तपदार्थ सङ्ग्रहो यथा -
 
-
 
शोणानि भौमभीमान्धाः शङ्खतक्षकपन्नगाः ।
पद्मप्रभा वास्तुपूज्यौ जिनेन्द्रौ नवभानुमान् ॥ १ ॥
त्रेता त्रेता हरिः क्षत्रवर्णधर्मपितृव्रजाः ।
सन्ध्योल्कावह्नयो विद्युत्तात्रे विद्रुमकुकुमे ॥ २ ॥
पद्मरागसुरारक्तचन्दनालक्तकद्रवाः ।
दृगन्ताधरजिह्वासृक्ष्मांससिन्दूरधातवः ॥ ३ ॥
हिङ्गुलं मधु रत्नानि स्फुलिङ्गा हस्तिबिन्दव ।
नखेन्द्रगोपखद्योताः कुक्कुटस्य शिखा तथा ॥ ४ ॥
चकोरसारसपारावत कोकिलदृष्टयः ।
कियाहो हंसचञ्च्वी शुकमकंटयोर्मुखम् ॥ ५ ॥