This page has not been fully proofread.

काव्यकल्पलतावृत्तिः
 
मृणालपलिताम्भोदधारेन्दुकरचावराः ।
हारोर्णनाभतन्तुभिः स्वर्दण्डेभरदा गुणाः ॥ १२ ॥
से राहशर्कराशालिदुग्धगडासुधा जलम् ।
निर्झरः पारदो हंसबककैरवकम्बजः ॥ १३ ॥
लतागृहं पुण्डरीककपालश्वेतकुम्भकाः ।
छत्रसंहध्वजश्वेतगुञ्जाशुक्तिपदिकाः ॥ १४ ॥
मुक्ताकुसुमनक्षत्रवन्तस्वेदाम्बुबिन्दवः ।
सूर्येन्दुक्रान्तकर कसिकताकणसोकसः ॥ १५ ॥
मालतीमल्लिकाकुन्दयूथिकाकुटजादयः ।
 
एते भारतीप्रभृतयोऽन्येऽपि श्वेतपदार्थाः परस्परमौचित्यादुपमानं क्रियन्ते ।
उपमानीकृतपदार्थस्य वर्णादयो गुणा उपमेये रोप्यन्ते । यथा वर्ण्या भारतीं तस्या
उपमानं गङ्गा गङ्गायाः शुक्लो वर्णः परिवारो हंसपद्मादि आधारो धूर्जंटिशिरः
क्रिया पापहारित्वम् । ततो भारती कुन्देन्दुसुन्दरद्युतिः पद्मश्रिया हंससेविता
शिवोत्तमाङ्गललिता गङ्गेव सेवकपापहारिणी जयति । वर्ण्यास्तारकास्तासा-
मुपमानं मुक्तास्तासामाधारोऽब्धिस्ततो नभोम्भोधिमध्ये तारा मुक्ता इव । यथा
वर्ण्याः काशास्तेषामुपमानं हास्यं हास्यं च प्रियसङ्गतं भवति । ततो नवहंस-
समागमे शरद्वध्वा हासप्रकाशा इव काशाः । यथा – वयं हास्यं तस्योपमानं
ज्योत्स्ना तस्या आधारश्चन्द्रस्ततो मुखचन्दस्य ज्योत्स्नेव हास्यश्रीः । वयं
यशस्तस्योपमानं कर्पूर: कर्पूराधारः समुद्गक: परिवारोऽङ्गारस्त्रस्त त्रैलोक्यो-
दरसमुद्गके यशः कर्पूर इव तन्मध्ये नभोङ्गारलेशः । यथा वर्ण्यस्तारास्तासा-
मुपमानं पुष्पाणि तेषामाधारो लता ततस्तमोवल्ल्याः पुष्षाणीव तारा: । वर्ण्यान
पुष्पाणि तेषामुपमानं स्वेदबिन्दवस्ते सात्त्विकभावाद्धर्माच्च भवन्ति ततो
दक्षिणानिलस्य
 
स्पर्शाद्भुङ्गस्पर्शाद्वसन्तस्पर्शाद्वा वल्लीनां स्वेदबिन्दव इव
पुष्पाणि, परस्परसङ्घधर्मादिव रवितापधर्मादिव आत्मवशभृङ्गं परवल्लीगतं
दृष्ट्वा कोपादिव वल्लीनां स्वेदबिन्दव इव पुष्पाणि ।
 
अथवा पुष्पाणां तारका उपमानं तारकाणामाधार आकाशस्ततो
वनाकाशे पुष्पाणि तारका इव । अथवा रवितापत्रस्ताः शीतलवनोपान्त-
माश्रितास्तारा इव पुष्पाणि । अथवा स्वोपकारकरान्धकार भ्रान्त्या श्यामलवन-