This page has not been fully proofread.

चतुर्थ प्रताने प्रथमः स्तबक
 
वर्ण्यवस्तुनो वर्ण्याकारादीनां मध्यादेकेन केनापि काभ्यां चिह्नाभ्यां वा
कैश्चित्तिभिश्चतुभिः पञ्चभिर्वा भावैरर्थः पूर्णतां नेयः ।
 
वर्णाकारक्रियामुख्यैः सदृशं वस्तु वस्तुनि ।
संयोजयेद्ययौचित्यभुषमारूपकाविभिः ॥ ४ ॥
 
वर्ण्यवस्तुनि शुक्लादी शुक्लादि चतुरस्रादी चतुरस्रादि कम्पनादौ
नर्त्तनादि, इत्यादि सदृशान् भावानुपमया रूपकेण वा अलङ्कारान्तरैर्वा
योजयेत् ।
 
वर्णादिभिरुपमानोकृतवस्तुप्रथित वर्ण मुख्यगुणाः ।
 
उपमेये सावृश्यात् श्लेषादौचित्यतो योज्याः ॥ ५ ॥
 
श्वेतादीनां श्वेतादयः चतुरस्रादीनां चतुरस्रादयः चलादीनां चलादयः
. आधारपरिवारादीनां आधारपरिवारादयः, औचित्यादुपमानं क्रियन्ते । उपमानो-
कृतवस्तुनो वर्णादयो गुणा: सादृश्येन श्लेषेण वा उपमेये रोप्यन्ते । पूर्वं वर्णेभ्य-
स्तत्रापि शुक्लवर्णादर्थोत्पत्तये शुक्लपदार्थोपसङ्ग्रहो यथा -
 
शुभ्राणि भारतीधर्मशेषेशवरुणेन्दवः ।
 
चन्द्रप्रभसुविध्याख्यौ जिनेन्द्रौ बलनारदौ ॥ ६॥
ब्राह्मणानां वर्णो धर्मः पितरच कृताच्युतः ।
सत्त्वं कृतयुगं शान्तहास्यवीररसास्तथा ॥ ७ ॥
शुक्लध्यानं शुक्ललेवया पुण्यं सिद्धिशिलोशनाः ।
चन्द्रइंचोच्चैःश्रवः शक्रजगज्योत्स्ना शरद्धनाः ॥ ८ ॥
प्रासावसौषकैलासमन्दारहिमाद्रयः ।
रम्भागर्भपारिजातलोध्रकङ्कोलपादपाः ॥ ९ ॥
कार्पासकाशकर्पूरकरम्भा रजतं यज्ञः ।
निर्मोकचोरडिण्डी र चन्वनं हसितं हिमम् ॥ १० ॥
दधिम्रक्षणचूर्णास्थिखटिकास्फटिकाभ्रकाः ।
रेणु: केतकखर्जूर्यो: कटाक्षा वासभस्मनी ॥ ११ ॥