This page has not been fully proofread.

। १५०
 
काव्यकल्पलतावृत्तिः
 
प्रदमेकस्य चक्षुरादेः सर्वेषामिन्द्रियाणां प्रोतिप्रदम् । भूत्यादिप्रदं लक्ष्मीवस्त्र-
स्थानतेजःप्रभृतिप्रदं तदपहारि इन्द्रियानन्दापहारकं भृत्याद्यपहारकं च तथा
एषां वर्णादीनामपि यथासम्भवं ये रिपवो मित्रादयस्तेऽपि यथा वर्णाकारक्रियाणां
सादृश्यादेव वस्त्वन्तराणि द्विषोमित्राणि च तथा आधारस्य द्विषो मित्राणि
आधेयस्य द्विषो मित्राणि सम्बन्धिनां द्विषो मित्राणि बन्धूनां द्विषो मित्राणि
सम्पर्कणां द्विषो मित्राणि द्वेषिणां स्वामिनां द्विषो मित्राणि पत्युद्विषो मित्राणि
पत्न्या द्विषो मित्राणि स्वामिनां द्विषो मित्राणि सेवकानां द्विषो मित्राणि इन्द्रिया-
नन्ददायिनां द्विषो मित्राणि भूत्यादिदायिनां द्विषो मित्राणि इन्द्रियानन्दापहारिणां
द्विषो मित्राणि भूत्याद्यपहारिणां द्विषो मित्राणि ।
 
आधारादीनामपि सादृश्याद्वस्त्वन्तरैः सह शत्रुत्वं मित्रत्वश्व कल्पनीयम् ।
इत्यादिशब्दाद्वर्ण्यवर्णादिद्वेषिमित्राणां द्वेषिमित्रादि । तथा वर्ण्यस्य शिशिरत्व-
मुष्णत्वं मधुरत्वं कटुत्वं सुगन्धत्वं सुरूपत्वं दुर्गंन्धत्वं कुरूपत्वं मधुरध्व नित्वं
कठोरध्वनित्वं सूक्ष्मत्वमित्यादयोऽन्येऽपि भावा वर्ण्यवस्तूनि विविधार्थाना-
मुत्पत्त्यर्थं बीजरूपा जायन्ते । यथा वर्ण्यो रविस्तस्य पीतो वर्णः, आकारो वृत्तः,
क्रिया: प्रकाशनरूपायाः, आधारो नभः, आधेयं हस्तकमलादिः, सम्बन्धिनो
ब्रह्म काश्यपशनियमुनाद्याः, बन्धवोऽपरे सूर्याः, सम्पर्किणो रथो रथ्याऽरुणवाल-
खिल्यादयः, द्वेषिणो राहुशुक्रशनयो ध्वान्तदैत्याच मित्राणि चन्द्रमङ्गलगुरव,
कमलचक्रकाद्याश्च वा, रविरेव प्रभाकमलिन्योः पतिः, पत्न्यः प्रभाकमलिनीरत्ना
देव्य:, ईश: पितामहत्वात् ब्रह्मा, सेवका भाविनः, इन्द्रियानन्दप्रदा मित्राद्याः,
शोभाप्रदा दिवसायाः, इन्द्रियानन्दहरा विपक्षाद्याः, तेजोहरा राहुदिनान्ताद्याः,
तथा वर्ण्यस्य रवेवंर्णस्य द्विषो मित्राणि, सदृग्वर्णानि आकारस्य द्विषो मित्राणि
सद्गाकाराणि, मित्रस्य कमलस्य द्विषश्चन्द्राद्याः, मित्राणि चक्राद्याः, सम्पर्किणो
हंसाद्या:, आधारो जलम्, आधेयं भृङ्गाद्याः, एवं परस्परमेकैकस्य भावस्य यथा-
सम्भवमपरे भावा निरीक्ष्याः । तथा एवं कमलमित्रद्वेषिणश्चन्द्रादेरपि वर्णादीनि
विलोक्यानि ।
 
वर्णाविकाना मेकेन द्वाभ्यां वा व्यादिकैरथ ।
 
सुषीरुत्पादयेदर्थभौचित्याद्वर्ण्य वस्तुनि ॥ ३ ॥