This page has not been fully proofread.

s
 
चतुर्थप्रताने प्रथमः स्तंबको
 
-
 
अथ द्विपङ्क्तिस्तोष्यरूपकं यथा-
कलाकमलिनी बोधशमवासरनायकः ।
 
इदमपि वैपरीत्येन । यथा-
शमभास्करविस्मेरकलाकमलिनोवनः ॥ ७५ ॥
 
कलाकादम्बिनीलीलावृत्त्यर्जुनमनः शिखो ।
 
जनस्वान्तशिखिक्रोडा कलाकादम्बिनीभरः ॥ ७६ ॥
उल्लासिसत्यजीमूतप्रोत
विष्टपचातकः ।
लोलचातकसम्प्रीतिकरसत्यपयोधरः । ७७ ॥
 
विवेकरजनीनाथसम्बधित शमाम्बुधिः ।
शमसागर विस्तार विवेक रजनीकरः ॥ ७८ ॥
अथ द्विपङ्क्त्याघाररूपकं यथा-
यथा-
गुणहंसमनोहारिप्रतिज्ञावाहिनीरयः ।
कीर्तिध्वजाचल प्राजिमानमत्तमतङ्गजः ॥ ७६ ॥
यशोमौक्तिकविस्तारितारदानपयोनिधिः ।
सत्कीर्तिनर्मंदा भ्राजिधैर्य विन्ध्यमहीधरः ॥ ८० ॥
 
प्रतापतपनोयोतिगुरुशौर्यनभोङ्गणः ।
विक्रीडत्कीर्तिशीतांशोः तारदानपयोनिधिः ॥ ८१ ॥
 
देवभक्तिमरुत्कुल्यापूर्णमानससागरः ।
धेयंहर्यक्षवर्यश्रीविलसद्गुणकाकनः ॥ ८२ ॥
 
१४७
 
गुणमुक्ताङ्गणश्रेष्ठविवेकतटिनीपतिः ।
कलासुरनदीरम्यस्फारघैर्यहिमाचलः ॥ ८३ ॥
 
इदमेव द्विपङ्क्त्याधाररूपकं वैपरीत्येन द्विपङ्क्त्याधेयरूपकं भवति ।
 
प्रतिज्ञावाहिनीपूरक्रीडद्गुणसितच्छदः ।
अहङ्कारमहाहस्तिक्रोड कीर्तिध्वजावलः ॥ ८४ ॥
दानपाथोनिधिक्रीडद्य शोमुक्तासमुच्चयः ।
धैर्यविन्ध्याचलोत्सङ्गङ्गत्सत्कीतिनदः ॥ ८५ ॥